________________
त्रिपष्टिशलाका
पुरुषचरिते
द्वितीय पर्व तृतीयः सर्गः अजितसगरयो. चरितम् ।
॥२२९॥
पञ्चनवतियोजनसहस्रीं च क्रमात क्रमात । उभयतोऽप्युच्छ्रयेण, वर्धमानजलस्तथा ॥ ६२०॥ मध्ये च योजनदशसहस्रीप्रमविस्ततौ । योजनानां सहस्राणि, पोडशोच्छ्रयवच्छिखः॥६२१ ॥ कालद्वये तदुपरि, गव्य॒तद्वितयावधि । हास-वृद्धिधरो नाम्ना, लवणोदः पयोनिधिः॥ ६२२॥
॥ चतुर्भिः कलापकम् ॥ पूर्वादिदिक्षु तत्रान्तः, प्रमाणे लक्षयोजनाः । वडवामुख-केयूप-यूपकेश्वरसंज्ञकाः ॥ ६२३ ॥ सहस्रयोजनीमानवज्रनिर्मितकुड्यकाः। योजनानां सहस्राणि, दशाऽधोऽन्ते च विस्तृताः॥ ६२४ ॥ वायुधृतेत्र्यंशजला, महालिञ्जरसन्निभाः। पातालकलसाः सन्ति, चत्वारः प्राक्क्रमादमी ॥६२५ ॥ तेषु कालो महाकालो, वेलम्बोऽथ प्रभञ्चनः । वसन्ति क्रीडावासेषु, क्रमेणैव दिवौकसः ॥६२६॥ सहस्रयोजनाश्चाऽन्ये, दशयोजनकुड्यकाः । अधस्ताच्च वेदने च, शतयोजनसम्मिताः ॥ ६२७॥ वायत्क्षिप्तमध्यमिश्रापाः शतान्यष्टसप्ततिः । चतुरशीतिश्च क्षुद्रपातालकलसा इह ॥ ६२८॥ द्विचत्वारिंशत्सहस्रसङ्ख्या नागकुमारकाः । अन्तर्वेलाधारिणोऽस्मिन्नायुक्ता इव सर्वदा ॥ ६२९॥ बाह्यवेलाधारिणां तु, सहस्राणि द्विसप्ततिः । तथा पष्टिः सहस्राणि, शिखावेलाप्रधारिणाम् ॥ ६३०॥ गोस्तूप उदकाभासः, शङ्कोऽप्यदकसीमकः। हेमा-ऽङ्क-रौप्य-स्फाटिका, वेलाधारीन्द्रपर्वताः६३१ गोस्तूप-शिवक-शङ्ख-मनोहृदसुराश्रयाः। द्विचत्वारिंशत्सहस्रयोजन्यां दिग्भवाश्च ते ॥ ६३२ ॥
१ उपरि। २ तृतीयभागो वायुपूरितो भागद्वये च जलमस्तीति तात्पर्यम् । ३ अलिअरो मृदाण्डविशेषः । उपरि । ५ प्रमाणाः। ६ वायुनोरिक्षप्ता मध्ये मिश्रा आपो येषां ते। ७ समुद्रे । ८ नियुक्ता इव ।
लवणाधिः पातालकलशा वेलन्धरदेवाश्च
॥२२९॥
Jain Education Inte
For Private & Personal use only
www.jainelibrary.org,