________________
जम्बूद्वीपस्य जगती वैताब्यगिरयश्च
मध्ये च भरतस्याऽपागुत्तरार्धविभागकृत । वैताट्याद्रिः प्रागपरपयोधी यावदायतः॥६०५॥ पद् योजनानि सक्रोशान्युा मग्नः स विस्तृतः । पञ्चाशतं योजनानि, तदधं पुनरुच्छ्रितः॥६०६॥ भूमितो दशयोजन्यां, दक्षिणोत्तरपार्श्वयोः । तत्र विद्याधरश्रेण्यौ, दशयोजनविस्तृते ॥६०७॥ तत्रापाच्यां सराष्ट्राणि, पञ्चाशनगराणि तु । उत्तरस्यां पुनः षष्टिविद्याधरमहीभुजाम् ॥६०८॥ ऊर्द्ध विद्याभृच्छ्रेणिभ्यां, दशयोजन्यनन्तरम् । उमे च व्यन्तरश्रेण्यौ, व्यन्तरावासशोभिते ॥६०९॥ उपरि व्यन्तरश्रेण्योर्योजनेषु तु पञ्चसु । कूटानि नव वैताढ्य, ईगैरवतेऽपि हि ॥ ६१०॥
प्राकारभूता द्वीपस्य, जम्बूद्वीपस्य तिष्ठति । जगती वज्रमय्यष्टौ, योजनानि समुच्छ्रिता ॥ ६११॥ तस्याश्च मूले विष्कम्भमाने द्वादशयोजनी । मध्यभागे योजनानि, चाष्टौ चत्वारि मूर्धनि ॥ ६१२॥ तद जालकटको, गव्युतद्वितयोच्छ्रयः। विद्याधराणामाक्रीडस्थानमेकं मनोहरम ॥ ६१३॥ ततोऽपि जालकटकादुई पद्मवराभिधा । विद्यते वेदिका रम्या, भोगभूमिर्दिवौकसाम् ॥६१४॥ तस्या जगत्याः पूर्वादिदिक्षु द्वाराणि च क्रमात् । विजयं वैजयन्तं च, जयन्तमपराजितम् ॥६१५॥ अस्ति च क्षुद्रहिमवन्महाहिमवदन्तरे । शब्दापातीनामधेयाद्, वृत्तवैताठ्यपर्वतः॥६१६ ॥ शैलस्तु विकटापाती, मध्ये शिखरि-रुक्मिणोः । गन्धापाती पुनर्महाहिमवन्निषधान्तरे।।६१७।। माल्यवानन्तराले च, शैलयोनील-रुक्मिणोः। सर्वेऽपि पल्याकृतयः, सहस्रयोजनोच्छ्रयाः॥६१८॥
जबूद्वीपपरिक्षेपी, विस्तारे द्विगुणस्ततः । अवगाढो योजनानां, सहस्रमवनीतले ॥६१९ ॥ १ पूर्वपश्चिमसमुद्रौ। २ दक्षिणस्याम् ।
चक्षुद्रहिमवन्महाहिमबार सक्मिणोः । गन्धापाती पुनस्रयोजनोच्छ्रयाः ॥६१८
Jain Education Inte
For Private & Personal use only
www.jainelibrary.org.