SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व तृतीया सर्गः अजित ॥२२८॥ सगरयोचरितम् । गजदन्ताकृती मूर्धा, स्तोकादस्पृष्टमेरुको । अनयोरन्तरे देवकुरवो भोगभूमयः ॥ ५९० ॥ तद्विष्कम्भो योजनानामेकादश सहस्रकाः। द्विचत्वारिंशदधिका, योजनाष्टशती तथा ॥ ५९१ ॥ तत्र च शीतोदाभिन्नहदपञ्चकपार्श्वतः । स्वर्णशैला दश दश, ते मिथो मीलनाच्छतम् ॥ ५९२ ॥ तत्र नद्याः शीतोदायाः, पूर्वापरतटस्थितौ । शैलौ विचित्रकूटश्च, चित्रकूटश्च नामतः॥ ५९३ ॥ तयोः सहस्रमुत्सेधे, योजनानामधोऽपि च । तावानेव हि विस्तारस्तदर्ध चोर्द्धविस्तृतौ ॥ ५९४ ॥ मेरोरुत्तरतो नीलगिरेदक्षिणतो गिरी । गजदन्ताकृती गन्धमादनो माल्यवानपि ॥ ५९५ ॥ तयोरन्तः शीताभिन्नदपश्चकपार्श्वगैः । स्वर्णशैलैः शतेनातिरम्याः कुरव उत्तराः॥ ५९६ ॥ तेषु नद्याश्च शीतायास्तटयोर्यमकाभिधौ । सौवौँ विचित्रकूट-चित्रकूटसमौ गिरी ॥ ५९७ ॥ देवोत्तरकुरुभ्यः प्राक्, प्राग्विदेहाः स्मृताश्च ते । पश्चिमेऽपरविदेहा, मिथः क्षेत्रान्तरोपमाः॥५९८॥ परस्परमसञ्चारा, विभक्ताः सरिदद्रिभिः । चक्रिविजेया विजयास्तेषु षोडश षोडश ॥ ५९९ ॥ तत्र कच्छो महाकच्छः, सुकच्छः कच्छवानपि । आवों मङ्गलावर्तः, पुष्कल: पुष्कलावती॥ प्राग्विदेहोत्तरा ह्येते, दक्षिणास्त्वथ वत्सकः । सुवत्सोऽथ महावत्सो, रम्यवान् रम्य-रम्यको। रमणीयो मङ्गलवानथाऽपरविदेहगाः । पद्मः सुपद्मोऽथ महापद्मः पद्मावती तथा ॥६०२॥ शङः कुमुद-नलिने, नलिनवांश्च दक्षिणाः । वप्रः सुवप्रोऽथ महावप्रो वप्रावती तथा ॥६०३॥ अथ वल्गुः सुवल्गुश्च, गन्धिला गन्धिलावती। अपरेषु विदेहेषूत्तरस्था विजया अमी॥६०४॥ उच्चत्वे । २ पूर्वस्यां दिशि । ३ पूर्वविदेहाः। ४ चक्रिणा विजेतुं योग्याः । विदेहक्षेत्रम् विजयाः ॥२२८॥ Jain Education a l For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy