SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ महापद्मात् तु द्विगुणस्तिनिच्छिनिषधे हृदः। तिङ्गिच्छितुल्यो नीलाद्रौ, इदः केसरिसंज्ञकः॥५७५॥|| जम्बूद्वीपहृदाः महापुण्डरीको महापद्मतुल्यस्तु रुक्मिणि । पद्मतुल्यः पुण्डरीकहदः शिखरिपर्वते ॥ ५७६ ॥ विकखराणि तिष्ठन्ति, पद्मादिषु ह्रदेषु तु । कमलान्यवगाढानि, जलान्तर्दशयोजनीम् ॥ ५७७ ॥ श्रीह्रीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्यायुषोत्र तु । सामानिकपार्षद्याऽऽत्मरक्षानीकयुताः क्रमात् ॥५७८॥ तत्र च भरतक्षेत्रे, गङ्गा-सिन्धू महापगे। रोहिता-रोहितांशे तु, क्षेत्रे हैमवताभिधे ॥५७९॥ हरिद्धरिकान्ता नद्यौ, वर्षे तु हरिवर्षके। महाविदेहेषु शीता-शीतोदे सरिदुत्तमे ।। ५८०॥ जम्बूद्वीप महानद्यः नरकान्ता-नारीकान्ते, क्षेत्रे रम्यकनामनि । स्वर्णकूला-रूप्यकूले, हैरण्यवतवर्षके ॥ ५८१॥ नद्यौ तु रक्ता-रक्तोदे, क्षेत्र ऐरवताभिधे । आद्याः पूर्वाब्धिगामिन्यो, द्वितीयाः पश्चिमाब्धिगाः॥५८२॥ आपगानां सहस्रस्तु, चतुर्दशभिरुत्तमैः । गङ्गा-सिन्धू महानद्यौ, प्रत्येक परिवारिते ॥ ५८३ ॥ द्विगुणद्विगुणनदीवृते द्वे द्वे परे अपि । यावच्च शीता-शीतोदे, उत्तरा दक्षिणोपमाः ॥ ५८४॥ प्रत्येकं ते पुनः शीता-शीतोदे परिवारिते । द्वात्रिंशत्सहस्राधिकैर्नदीलक्षैस्तु पञ्चभिः ॥५८५ ॥ भरतोरुत्वे षडूविंशा, पञ्चयोजनशत्यथ । एकोनविंशत्यंशस्य, योजनस्य पडंशकाः ॥ ५८६ ॥ ततो द्विगुणद्विगुणविष्कम्भाश्च यथोत्तरम् । विदेहान्ता वर्षधराचल-वर्षा भवन्ति तु ॥ ५८७॥ विदेहक्षेत्रम् उत्तरे वर्षधराद्रि वर्षास्तुल्यास्तु दक्षिणैः । वर्षधराद्रि-वर्षाणां, प्रमाणमिदमेव हि ॥ ५८८॥ निषधानेरुत्तरतो, मेरोदक्षिणतोऽपि च । विद्युत्मभ-सौमनसौ, गिरी पश्चिम-पूर्वकौ ॥ ५८९ ॥ : जलमध्ये दशयोजनपर्यन्तमवगाय स्थितानि । २ महानद्यौ। ३ भरतस्य पृथुत्वे । For Private & Personal use only www.jainelibrary.org Jan Eco
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy