SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व तृतीयः सर्गः ॥२२७॥ अजितसगरयोचरितम् । चत्वारिंशद्योजनानि, पुनस्तस्याः समुच्छ्ये । मूलविष्कम्भमाने तु, तस्या द्वादशयोजनी ॥ ५६०॥ अष्टौ तन्मध्यविष्कम्भे, चत्वार्युपरिविस्तृतौ । मेरोमले भद्रशालं, वनं वलयसन्निभम् ॥ ५६१ ॥ भद्रशालात् पञ्चशतयोजन्यामधिमेखेलम् । नन्दनं विस्तृतं पञ्च, योजनानां शतानि तु ॥५६२॥ सार्धद्विषष्टिसहस्रयोजनेष्वथ तादृशम् । मेखलायां द्वितीयस्यां, तावत् सौमनसं वनम् ।। ५६३॥ वनात् सौमनसात् षट्त्रिंशद्योजनसहस्रतः। भवेद्र्द्ध तृतीयस्यां, मेखलाभुवि सुन्दरम् ॥ ५६४॥ चतुर्नवत्यग्रचतुःशतयोजनविस्तृतम् । वलयाकारमुद्यानं, मेरोः शिरसि पाण्डकम् ॥ ५६५॥ जम्बूद्वीपे त्विह द्वीपे, सप्त वर्षाणि भारतम् । हैमवतं हरिवर्ष, विदेहं रम्यकं तथा ॥५६६ ॥ हैरण्यवतैरवते, अमून्या दक्षिणोत्तरम् । विभागकारिणोऽमीषाममी वर्षधराद्रयः॥ ५६७ ॥ हिमवन्महाहिमवन्निषधा नील-रुक्मिणी । शिखरी चेति मूलोर्द्धतुल्यविस्तारशालिनः॥ ५६८॥ तत्राऽवगाढो मेदिन्यां, पञ्चविंशतियोजनीम् । हेममयोऽद्रिर्हिमवानुच्छ्रितः शतयोजनीम् ॥ ५६९॥ महाहिमवदद्रिस्तद्विगुणोऽर्जुननिर्मितः। ततोऽपि द्विगुणस्तापनीयो निषधपर्वतः॥ ५७०॥ नीलस्तु निषधतुल्यो, गिरिर्वैडूर्यनिर्मितः। महाहिमवता तुल्यो, रुक्मी रजतनिर्मितः ॥ ५७१ ॥ तापनीयस्तु शिखरी, समो हिमवदद्रिणा । सर्वेऽपि पार्श्वभागेषु, विचित्रमणिशालिनः॥ ५७२ ॥ सहस्रयोजनायामस्तदर्धेन तु विस्तृतः। अद्रौ क्षुद्रहिमवति, पद्मनामा महादः॥ ५७३ ॥ महाहिमवदद्रौ तु, महापद्माभिधो ह्रदः। विद्यते पद्मइदतो, द्विगुणायाम-विस्तृतिः॥ ५७४॥ १ उच्चत्वे । २ मेखलायाम् । ३ श्वेतसुवर्णनिर्मितः। ४ सुवर्णमयः। जम्बूद्वीपस्तद्वर्षाणि वर्षधरान ॥२२७॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy