________________
तिर्यग्लोकः
GESTOSSESSO4OSRAMOSOS
पुरः सिंहा दक्षिणतो, गजा अपरतो वृषाः । उत्तरतोऽश्वाश्चन्द्रादिविमानवाहनान्यमी ॥ ५४५॥ ते चाऽऽभियोगिकाश्चन्द्रांश्वोः सहस्राणि षोडश । ग्रह-नक्षत्र-ताराणामष्टौ चत्वार्युमे क्रमात् ॥ ५४६॥ चन्द्रादीनां गतिजुषां, स्वरसेनैव सन्ततम् । वाहनत्वेनाऽवतिष्ठन्त्याभियोग्येन कर्मणा ॥ ५४७ ।। मानुषोत्तरपरतो, योजनानां सहस्रकैः । पञ्चाशतेन्दवोऽर्काश्च, तिष्ठन्त्यन्तरिता मिथः॥ ५४८॥ मनुष्यक्षेत्रचन्द्रा-ऽर्कमानादर्धप्रमाणकाः । क्रमशः क्षेत्रपरिधिवृद्ध्या वर्धिष्णुसङ्ख्यकाः ॥ ५४९॥ . सुलेश्या ग्रह-नक्षत्र-तारकापरिवारिताः । सङ्ख्याविवर्जिता एवं, घण्टाकारमनोहराः ॥ ५५० ॥ खयम्भूरमणाम्भोधिमवधीकृत्य ते सदा । तिष्ठन्ति योजनलक्षान्तरिताभिश्च पतिभिः ॥ ५५१॥ मध्यलोके जम्बूद्वीप-लवणाद्याः शुभाभिधाः। द्विगुणद्विगुणाभोगा, असङ्ख्या द्वीप-सागराः ॥५५२॥ पूर्वपूर्वपरिक्षेपकृतो वलयसन्निभाः । अन्त्यः स्वयम्भूरमणो, नाम तेषां महोदधिः ॥ ५५३ ॥ जम्बूद्वीपान्तरे मेरुः, काञ्चनस्थालवतुलः। अधो योजनसहस्रमवगादो महीतले ॥ ५५४॥ नवनवतिं योजनसहस्राणि समुच्छ्रितः। योजनानां सहस्राणि, भूतले दश विस्तृतः॥ ५५५ ॥ एकं योजनसहस्रमुपरिष्टाच्च विस्तृतः । त्रिकाण्डश्च त्रिभिलॊकैः, प्रविभक्तवपुश्च सः ॥ ५५६ ॥ शुद्धपृथ्वी-प्राव-वज्र-शर्कराबहुलं खलु । एकं योजनसहस्रं, सुमेरोः काण्डमादिमम् ॥ ५५७ ॥ जातरूप-स्फटिका-ऽङ्क-रजतैबहुलावनि । योजनानां सहस्राणि, त्रिषष्टिस्तु द्वितीयकम् ॥ ५५८॥ षत्रिंशच्च तृतीयं तु, जाम्बूनदशिलामयम् । वैडूर्यरत्नबहुला, चूलिका तस्य शोभना ॥ ५५९ ॥
चन्द्र-सूर्ययोः। २ पूर्वपूर्वद्वीप-समुद्रपरिवृताः एकान्तरिता द्वीप-समुद्राः ।
मेह
Jain Education Intel
For Private & Personal use only
IMITwww.jainelibrary.org.