SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व तृतीयः सर्गः अजितसगरयोश्चरितम् । ॥२२६॥ ज्योतिष्काः तदुर्द्ध दशयोजन्यां, सूर्यः सूर्यस्य चोपरि। भवत्यशीतियोजन्याः, प्रान्ते तुहिनदीधितिः॥ ५३०॥ ततो विंशतियोजन्याः, प्रान्ते तारा ग्रहा इति । बाहल्ये योजनशतं, ज्योतिर्लोको दशोत्तरम् ॥ ५३१॥ एकविंशैर्योजनानामत्रैकादशभिः शतैः । द्वीपस्य जम्बूद्वीपस्य, मेरुशैलमसंस्पृशत् ॥ ५३२ ॥ आस्थितं मण्डलिकया, दिक्षु सर्वासु सन्ततम् । ज्योतिश्चक्रं बम्भ्रमीति, ध्रुव एकस्तु निश्चलः ॥ ५३३॥ योजनानामेकादशशतैरेकादशोत्तरः । लोकान्तमस्पृशत् तद्धि, मण्डलेनाऽवतिष्ठते ॥ ५३४॥ अत्र सर्वोपरि स्वातिः, सर्वेषां भरणी त्वधः । सर्वेभ्यो दक्षिणो मूलोऽभीचिः सर्वोत्तरः पुनः॥५३५॥ तत्र जम्बूद्वीपेऽमुष्मिन्, द्वौ चन्द्रौ द्वौ च भास्करौ । लवणोदे च चत्वारश्चन्द्रा दिनकरास्तथा ॥५३६॥ द्वादश धातकीखण्डे, चन्द्रा द्वादश भानवः । कालोदे द्विचत्वारिंशचन्द्रा दिनकरास्तथा ॥ ५३७॥ द्वासप्ततिः पुष्करार्धे, चन्द्राश्च रवयोऽपि च । एवं द्वात्रिंशमिन्दूनां, शतं दिनकृतां तथा ॥ ५३८॥ एकस्यैकस्य चन्द्रस्य, जायते च पेरिग्रहः । अष्टाशीतिर्ग्रहाश्चैव, भान्यष्टाविंशतिस्तथा ॥ ५३९ ॥ षट्पष्टिश्च सहस्राणि, तथा नव शतानि च । तारकाकोटिकोटीनां, पञ्चसप्ततिरेव च ॥ ५४०॥ इन्दोविमानं विष्कम्भा-ऽऽयामयोर्योजनस्य तु । एकषष्ट्यंशीकृतस्य, स्युः षट्पञ्चाशदंशकाः ॥५४१॥ अष्टचत्वारिंशदंशा, विमाने तु विवस्वतः। योजनाधं ग्रहाणां तु, भानां गव्यूतमेककम् ।। ५४२ ॥ सर्वोत्कृष्टायुषस्तारकायाः क्रोशाधमेव तु । सर्वजघन्यायुष्कायाः, पश्च धन्वशतानि तु ॥५४३॥ पिण्डः सर्वत्र दैाध, मर्त्य क्षेत्रे भवन्ति ते । पञ्चचत्वारिंशल्लक्षयोजनप्रमिते खलु ॥ ५४४ ॥ १ चन्द्रः। २ परिवारः। ३ नक्षत्राणि । ४ सूर्यस्य । ५ नक्षत्राणाम् । ६ स्थूलत्वम्। . ॥२२६॥ Jain Education W aldnal For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy