SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Jain Education रत्नप्रभाया उपरि, योजनानां सहस्रतः । उपरिष्टादधस्ताच्च, त्यक्त्वैकां शतयोजनीम् ॥ ५१५ ॥ वसन्ति योजनशतेष्वष्टस्वष्टविधाः खलु । दक्षिणोत्तरयोः श्रेण्योर्व्यन्तराणां निकायकाः ।। ५१६ ॥ पिशाचव्यन्तरास्तत्र, कदम्बतरुलाञ्छनाः । भूताः सुलसवृक्षाङ्का, यक्षास्तु वटलाञ्छनाः ॥ ५१७ ॥ राक्षसास्तु खद्वाङ्गाङ्का, अशोकाङ्कास्तु किन्नराः । चम्पकाङ्काः किम्पुरुषा, नागङ्का महोरगाः ।।५१८॥ गन्धर्वव्यन्तराश्चारुतुम्बुरुदुमलाञ्छनाः । तत्र काल-महाकालौ, पिशाचानामधीश्वरौ ।। ५१९ ।। सुरूपोऽप्रतिरूपश्च भूतानामधिपौ पुनः । यक्षाणां पूर्णभद्रश्व, माणिभद्रव वासवः ।। ५२० ।। राक्षसानां पुनर्भीमो महाभीमश्च नायकः । किन्नराणामधीशौ किन्नर - किम्पुरुषौ पुनः ॥ ५२१ ॥ तथा सत्पुरुष महापुरुषौ किम्पुरुषपौ । अतिकाय महाकायौ, महोरगपुरन्दरौ ॥ ५२२ ॥ गन्धर्वाणां प्रभुर्गीत रतिर्गीतयशा अपि । इत्थङ्कारं व्यन्तराणां तत्रेन्द्राः सन्ति षोडश ।। ५२३ ।। रत्नप्रभायाः प्रथमे, योजनानां शते तथा । योजनानि परित्यज्य, दशाऽधो दश चोपरि ।। ५२४ ।। सन्त्यशीतौ योजनेषु, व्यन्तराष्टनिकायकाः । तत्राऽप्रज्ञप्तिकः पञ्चप्रज्ञप्तिऋषिवादितः ॥ ५२५ ॥ भूतवादितः क्रन्दितो, महाक्रन्दित एव च । कूष्माण्डः पवकश्चेति, तेषु द्वौ द्वौ पुरन्दरौ ॥ ५२६ ॥ सन्निहितः समानच, तथा धातृ-विधातृकौ । ऋषिश्च ऋषिपालच, तथेश्वर - महेश्वरौ ||५२७॥ सुवत्सक - विशालौ च, हास-हासरती तथा । तथा श्वेत- महाश्वेतौ, पवकः पवकाधिपः ॥ ५२८ ॥ रत्नप्रभातलादूर्द्ध योजनानां शतेषु च । अष्टासु दशहीनेषु, ज्योतिष्काणामधस्तलम् ॥ ५२९ ॥ १ नागद्रोः नागवृक्षस्य अङ्कं चिह्नं येषां ते नागवङ्काः । For Private & Personal Use Only व्यन्तरा वानव्यन्तरास्तचिडानि तदिन्द्राश्व www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy