________________
Jain Education International
तत्राऽधो भागमासाद्याधोऽधःस्थाः सप्त भूमयः । यासु नीरकपण्डानां निवासाः सन्ति भीषणाः ॥ ४८५ ॥ रत्नशर्करावालुकापङ्कधूमतमःप्रभाः । महातमः प्रभा चाऽऽसां, बाहल्ये लक्षयोजनी || ४८६ ॥ अशीतिर्द्वात्रिंशदष्टाविंशतिर्विंशतिस्तथा । अष्टादश पोडशाऽष्टौ, सहस्राच क्रमेण तु ॥ ४८७ ॥ रत्नप्रभाभुवोऽघोऽधः क्रमात् पृथुतराच ताः । त्रिंशल्लक्षाणि नरकावासानां प्रथमावनौ ।। ४८८ ॥ पञ्चविंशतिलक्षाणि, द्वितीयनरकावनौ । तृतीयायां पञ्चदश, तुरीयायां पुनर्दश ॥ ४८९ ॥ पञ्चम्यां त्रीणि पञ्चोनं, लक्षं पश्यां पुनर्भुवि । पञ्चैव नरकावासाः, सप्तम्यां नरकावनौ ॥। ४९० ॥ rai रत्नप्रभादीनामधस्ताच्च घनाव्धयः । मध्योत्सेधे योजनानां सहस्राणि तु विंशतिः ॥ ४९१ ॥ तदधस्ताद् घनवाता, मध्योत्सेधे भवन्ति तु । योजनानामसङ्ख्यानि सहस्राणि घनाब्धितः ।। ४९२ ॥ तनुवातास्त्वसङ्ख्यानि, तानि स्युर्घनवाततः । आकाशं तनुवातेभ्योऽप्यसत्येयानि तानि च ।। ४९३ ॥ मध्योत्सेधादमुष्मात् तु हीयमानाः क्रमेण च । घनाम्भोध्यादयः प्रान्ते, वलयाकारधारिणः ॥ ४९४ ॥ रत्नप्रभाया मेदिन्याः, परिधिस्थितिशालिनः । घनाम्भोधिवलयस्य विष्कम्भो योजनानि षट् ॥ ४९५ ॥ महावातस्य वलयविष्कम्भे योजनानि तु । सार्धानि चत्वारि तनुवायोः सार्धं तु योजनम् ॥ ४९६ ॥ रत्नप्रभाया वलयमानस्योपरि जायते । शर्कराया घनाम्भोधौ, त्रिभागो योजनस्य तु ॥ ४९७ ।। महावाते च गव्यूतमेकं भवति निश्चितम् । गव्यूतस्य तृतीयांशस्तनुवातेऽपि वर्धते ॥ ४९८ ॥ शर्करावलयमानस्योपरि क्षेप एष च । तृतीयपृथ्वीवलय विष्कम्भेष्वपि जायते ॥ ४९९ ॥ ११ जैनागमेषु नारकाणां नपुंसकत्वं स्वीकृतमित्येवं प्रयोगः । २ स्थूलत्वे । ३ रत्नप्रभावनौ ।
For Private & Personal Use Only
अधोलोकः
नरका नरकावासा वलयाच
www.jainelibrary.org.