________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
तृतीयः
॥२२४॥
सर्गः अजितसगरयो. श्वरितम् ।
सुरापाणसमं प्राज्ञा, मोहनीयं प्रचक्षते । यदनेन विमढात्मा, कृत्या-ऽकत्येषु मुह्यति ॥ ४७०॥ तत्राऽपि दृष्टिमोहाख्यं, मिथ्यादृष्टिविपाककृत् । चारित्रमोहनीयं तु, विरतिप्रतिषेधकम् ॥ ४७१ ॥ नृ-तिर्यग्नारका-ऽमर्त्य भेदादायुश्चतुर्विधम् । खखजन्मनि जन्तूनां, धारकं गुप्तिसन्निभम् ॥ ४७२॥ । गति-जात्यादिवैचित्र्यकारि चित्रकरोपमम् । नामकर्म विपाकोऽस्य, शरीरेषु शरीरिणाम् ॥ ४७३॥ उच्चैर्नीचैर्भवेद् गोत्रं, कर्मोच्चैर्नीचगोत्रकृत् । क्षीरभाण्ड-सुराभाण्डभेदकारि कुलालवत् ॥ ४७४ ॥ दानादिलब्धयो येन, न फलन्ति विबाधिताः । तदन्तरायं कर्म स्याद् , भाण्डागारिकसन्निभम् ॥४७५॥ इति मूलप्रकृतीनां, विपाकांस्तान् विचिन्वतः। विपाकविचयं नाम, धर्मध्यानं प्रवर्तते ।। ४७६ ।। अनाद्यन्तस्य लोकस्य, स्थित्युत्पत्ति-व्ययात्मनः । आकृति चिन्तयेद् यत्र, संस्थानविचयः स तु ॥४७७॥ कटिस्थकरवैशाखस्थानकस्थनराकृतिः । द्रव्यैः पूर्णः स तु लोकः, स्थित्युत्पत्ति-व्ययात्मकैः॥ ४७८॥ वेत्रासनसमोऽधस्तान्मध्यतो झल्लरीनिभः । अग्रे मुरजसङ्काशो, लोकः स्यादेवमाकृतिः ॥ ४७९ ॥ स च त्रिजगदाकीर्णो, भुवः सप्तात्र वेष्टिताः । घनाम्भोधि-धनवात-तनुवातैर्महाबलैः ।। ४८० ॥ जगत्रयं त्वधस्तिर्यगर्बलोकविभेदतः। अधस्तिर्यगूर्द्धभावो, रुचकापेक्षया पुनः ॥ ४८१ ॥ मेर्वन्तर्गोस्तनाकारचतुर्योमप्रदेशकः । रुचकोऽधस्तादृगू मेवमष्टप्रदेशकः ॥ ४८२ ॥ तिर्यग्लोकस्तु रुचकस्योपरिष्टादधोऽपि च । योजनानां नव नव, शतानि भवति स्फुटम् ॥ ४८३ ॥ तिर्यग्लोकस्य त्वधस्तादधोलोकः प्रतिष्ठितः। नवयोजनशत्यूनसप्तरज्जुप्रमाणकः ॥ ४८४ ॥ १ कारागृहसमानम् । २ कोशागारिकतुल्यम् । ३ दधिमथकस्यासनभेदः। ४ मृदङ्गसदृशः । ५ तारक चतुःप्रदेश इत्यर्थः ।
संस्थानविचयम्
लोकस्वरूपम्
॥२२४॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org