SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ SASARSANSAR विपाक: यथा प्राप्तेऽपि सौराज्ये, भिक्षां भ्राम्यति बालिशः । आत्मायत्ते तथा मोक्षे, भवाय भ्रान्तवानसि ॥४५५॥ एवं राग-द्वेष-मोहर्जायमानान् विचिन्तयेत् । यत्राऽपायांस्तदपायविचयध्यानमिष्यते ॥ ४५६ ॥ विपाकविपाकः फलमानातः, कर्मणां स शुभा-ऽशुभः । द्रव्य-क्षेत्रादिसामग्र्या, चित्ररूपोऽनुभूयते ॥ ४५७ ॥ विचयम् शुभस्तत्राङ्गना-माल्य-खाद्यादिद्रव्यभोगतः। अशुभस्त्वहि-शस्त्रा-ग्नि-विषादिभ्योऽनुभूयते ॥ ४५८ ।। क्षेत्रे सौध-विमानोपवनादौ वसनाच्छुभः । श्मशान-जाङ्गला-ऽरण्यप्रभृतावशुभः पुनः ॥ ४५९॥ काले त्वशीतला-ऽनुष्णे, वसन्तादौ रतेः शुभः । उष्णे शीते ग्रीष्म-हेमन्तादौ भ्रमणतोऽशुभः ॥४६०॥ मनःप्रसाद-सन्तोषादिभावेषु शुभो भवेत् । क्रोधा-ऽहङ्कार-रौद्रत्वादिभावेष्वशुभः पुनः॥४६१॥ सुदेवत्व-भोगभूमिमनुष्यादिभवे शुभः । कुमय-तिर्यग्नरकादिभवेष्वशुभः पुनः॥ ४६२॥ अपि च-उँदय-क्षय-क्षयोपशमोपशमाः कर्मणां भवन्त्यत्र । द्रव्यं क्षेत्रं कालं, भावं च भवं च सम्प्राप्य||४६३॥ इति द्रव्यादिसामग्रीयोगात् कर्माणि देहिनाम् । खं खं फलं प्रयच्छन्ति, तानि त्वष्टैव तद्यथा ॥४६४॥ जन्तोः सर्वज्ञरूपस्य, ज्ञानमात्रियते सदा । येन चक्षुः पटेनेव, ज्ञानावरणकर्म तत् ॥ ४६५॥ मति-श्रुता-ऽवधि-मनःपर्यायाः केवलं तथा । पश्चाऽऽत्रियन्ते ज्ञानानीत्येता ज्ञानावृतेर्भिदः ॥४६६ ॥ पश्च निद्रा दर्शनानां, चतुष्कस्याऽऽवृतिश्च या । दर्शनावरणीयस्य, विपाकः कर्मणः स तु ॥ ४६७ ॥ हाअष्टौ कर्माणि यथा दिदृक्षः खामी खं, प्रतीहारनिरोधतः। न पश्यति तथाऽऽत्माऽपि, येन दृष्ट्यावृतिस्तु तत् ॥४६८॥ मधुलिप्तासिधाराग्राखादाभं वेद्यकर्म यत् । सुख-दुःखानुभवनस्वभावं तत् प्रकीर्तितम् ॥ ४६९ ॥ मूर्खः । २ कथितः । ३ सुदेवत्वे भोगस्थानभूते मनुष्यादिभवे च।* इदं आर्यावृत्तम् । ४ ज्ञानावरणस्य भेदाः। ५ दर्शनावरणम् । CARCISCER त्रिषष्टि. ३९ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy