________________
अजितप्रभोदेंशना
शब्द-रूप-रस-स्पर्श-गन्धाख्याः पञ्च गोचराः। भजन्ति प्रातिकूल्यं न, त्वदग्रे तार्किका इव ॥ ४२५ ॥ त्वत्पादावृतवः सर्वे, युगपत् पर्युपासते । आकालकृतकन्दर्पसाहायकमयादिव ॥ ४२६ ॥ सुगन्ध्युदकवर्षेण, दिव्यपुष्पोत्करेण च । भावित्वत्पादसंस्पर्शा, पूजयन्ति भुवं सुराः ॥ ४२७ ॥ जगत्प्रतीक्ष्य ! त्वां यान्ति, पक्षिणोऽपि प्रदक्षिणाम् । कागतिर्महतां तेषां, त्वयि ये वामवृत्तयः॥४२८॥ पञ्चेन्द्रियाणां दौःशील्यं, क भवेद् भवदन्तिके ? । एकेन्द्रियोऽपि यन्मुश्चत्यनिलः प्रतिकूलताम् ॥४२९॥ मूर्धा नमन्ति तरवस्त्वन्माहात्म्यचमत्कृताः। तत् कृतार्थ शिरस्तेषां, व्यर्थ मिथ्यादृशां पुनः॥४३०॥ जघन्यतः कोटिसङ्ख्यास्त्वां सेवन्ते सुरा-ऽसुराः । भाग्यसम्भारलभ्येऽर्थे, न मन्दा अप्युदासते ॥४३१॥
भगवन्तमिति स्तुत्वाऽपक्रम्य विनयक्रमात् । पृष्ठे मघवतस्तस्थौ, नर-नारीगणश्च सः॥ ४३२॥ इत्थं समवसरणस्योर्द्धवप्रान्तरावनौ । तस्थौ चतुर्विधः सङ्घो, ध्यानस्थ इव भक्तितः॥४३३ ।। द्वितीयवप्रमध्ये तु, भुजङ्ग-नकुलादयः। तिर्यश्चोऽस्थुस्त्यक्तवैरा, मित्राणीव परस्परम् ॥ ४३४॥ तृतीयवप्रमध्ये च, स्वामिसेवार्थमेयुषाम् । सुरा-ऽसुर-मनुष्याणां, वाहनान्यवतस्थिरे ॥ ४३५॥ अथाऽऽयोजनगामिन्या, सर्वभाषास्पृशा गिरा । भगवानजितखामी, प्रारेमे धर्मदेशनाम् ॥ ४३६॥ __असावसारः संसारः, सारबुद्ध्याऽवबुध्यते । काचो वैडूर्यबुद्ध्येव, धिगहो! मुग्धबुद्धिभिः॥ ४३७॥ प्रतिक्षणभवैदेहभाजां विविधकर्मभिः । संवर्ध्यते च संसारः, पादपो दोहदैरिव ।। ४३८॥ काभावेन संसाराभावो न्यायभवः खलु । कर्मध्वंसाय सुधिया, यतितव्यं ततः सदा ॥ ४३९ ॥ १ इन्द्रियविषयाः। २ हे जगत्पूज्य !। ३ प्रतिकूलवृत्तयः ।
Jain Education in.INX
For Private & Personal use only
www.jainelibrary.org