SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीय पर्व तृतीयः सर्गः अजितसगरयोश्चरितम् । ॥२२२॥ परितश्छादयन्नुर्वीमुर्वीपतिरथ द्रुतम् । आससाद सहस्राम्रवणोपवनसन्निधिम् ॥ ४११ ॥ ॥त्रिभिर्विशेषकम् ॥ उद्यानद्वारसौवर्णवेद्यां सगरभृपतिः । उत्ततार द्विपात् तस्मान्मानादिव महामुनिः ॥ ४१२ ॥ उज्झाञ्चकार सगरः, खं छत्रं चामरे अपि । अप्यन्यराज्यचिह्नानि, विनीतानां क्रमो ह्ययम् ॥ ४१३॥ पादाभ्यां न ह्यलञ्चक्रे, विनयादप्युपानहौ । हस्तावलम्बनमपि, वेत्रिदत्तमुपेक्षत ।। ४१४ ॥ ततः समवसरणाभ्यणे सगरभूपतिः। पयां चलितवान् पौरनर-नारीगणैः समम् ॥ ४१५॥ उदग्द्वारेण समवसरणं प्राविशत् तदा । नृपो मकरसङ्क्रान्ती, व्योमाङ्गणमिवार्यमा ॥ ४१६ ॥ तत्र प्रदक्षिणीकृत्य, त्रिनत्वा च जगद्गुरुम् । सगरः स्तोतुमारेभे, सुधामधुरया गिरा ॥ ४१७ ॥ मिथ्यादृशां युगान्तार्कः, सुदृशाममृताञ्जनम् । तिलकं तीर्थकुल्लक्ष्म्याः , पुरश्चक्रं तवैधते ॥४१८॥ एकोऽयमेव जगति, स्वामीत्याख्यातुमुच्छ्रिता । उच्चैरिन्द्रध्वजव्याजात, तर्जनी जम्भंविद्विपा ॥ ४१९॥ यत्र पादौ पदं धत्तस्तव तत्र सुरा-ऽसुराः । किरन्ति पङ्कजव्याजाच्छ्रियं पङ्कजवासिनीम् ॥ ४२०॥ दान-शील-तपो-भावभेदाद् धर्म चतुर्विधम् । मन्ये युगपदाख्यातुं, चतुर्वक्त्रोऽभवद् भवान् ॥ ४२१॥ त्वयि दोषत्रयात् त्रातुं, प्रवृत्ते भुवनत्रयीम् । प्राकारत्रितयं चक्रुस्त्रयेऽपि त्रिदिवौकसः ॥४२२॥ अधोमुखाः कण्टकाः स्युर्धाच्यां विहरतस्तव । भवेयुः सम्मुखीनाः किं, तामसास्तिग्मरोचिषः ॥४२३॥ केश-रोम-नख-श्मश्रु, तवाऽवस्थितमित्ययम् । बाह्योऽपि योगमहिमा, नाऽऽसस्तीर्थकरैः परैः ॥ ४२४॥ १ नम्राणाम् । २ इन्द्रेण। ३ सूर्यस्य । ४ वृद्धिरहितम् । प्रभोर्वन्दनाथ सगरस्य गमनम् ॥२२२॥ Jan Education International For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy