SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकाशुरुषचरिते ROCHUCHOS द्वितीयं पर्द तृतीयः सर्गः अजितसगरयोचरितम् । ॥२२॥ Portortortortortorontortort प्रविश्योदीच्यद्वारेण, सेन्द्रा वैमानिकाः प्रभुम् । नत्वा प्रदक्षिणापूर्वमैशान्यां न्यषदन् क्रमात् ॥३८२॥ नाथं भूयो नमस्कृत्य, शक्रो विरचिताञ्जलिः। भक्त्या रोमाश्चितवपुः, स्तोतुमित्युपचक्रमे ॥ ३८३ ॥ सर्वाभिमुख्यतो नाथ !, तीर्थकुनामकर्मजात् । सर्वेषां सम्मुखीनस्त्वमानन्दयसि यत् प्रजाः॥ ३८४ ॥ यद् योजनप्रमाणेऽपि, धर्मदेशनसमनि । सम्मान्ति कोटिशस्तिर्यग्नृ-देवाः सपरिच्छदाः ॥ ३८५ ॥ तेषामेव स्वस्वभाषापरिणाममनोहरम् । अप्येकरूपं वचनं, यत् ते धर्मावबोधकृत् ॥ ३८६ ॥ साग्रेऽपि योजनशते, पूर्वोत्पन्ना गदाम्बुदाः । यदञ्जसा विलीयन्ते, त्वद्विहारानिलोमिभिः ॥ ३८७॥ नाविर्भवन्ति यद् भूमौ, मूषिकाः शलभाः शुकाः । क्षणेन क्षितिपक्षिप्ता, अनीतय इवेतैयः॥३८८ ।। स्त्री-क्षेत्र-पंद्रादिभवो, यद् वैराग्निः प्रशाम्यति । त्वत्कृपापुष्करावर्तवर्षादिव भुवस्तले ॥ ३८९ ॥ त्वत्प्रभावे भुवि भ्राम्यत्यशिवोच्छेदडिण्डिमे । सम्भवन्ति न यन्नाथ !, मारयो भुवनारयः॥ ३९०॥ कामवर्षिणि लोकानां, त्वयि विश्वैकवत्सले । अतिवृष्टिरवृष्टिा, भवेद् यन्नोपतापकृत् ॥३९१ ॥ खराष्ट्र-परराष्ट्रेभ्यो, यत् क्षुद्रोपद्रवा द्रुतम् । विद्रवन्ति त्वत्प्रभावात्, सिंहनादादिव द्विपाः ॥ ३९२ ॥ यत् क्षीयते च दुर्भिक्षं, क्षितौ विहरति त्वयि । सर्वाद्भुतप्रभावाढ्ये, जङ्गमे कल्पपादपे॥३९३॥ यन्मभंः पश्चिमे भागे, जितमार्तण्डमण्डलम् । मा भूद् वपुर्दुरालोकमितीवोत्पिण्डितं महः ॥३९४ ॥ स एष योगसाम्राज्यमहिमा विश्वविश्रुतः। कर्मक्षयोत्थो भगवन् !, कस्य नाऽऽश्चर्यकारणम्॥३९५॥ अनन्तकालप्रचितमनन्तमपि सर्वथा । त्वत्तो नाऽन्यः कर्मकक्षमुन्मूलयति मूलतः ॥ ३९६ ॥ १व्याधय एव मेघाः । २ क्षेत्रपाकविनकरा उपद्रवाः । ३ ग्रामः । ४ व्याधयः । ५ कर्मैव कक्षं वनम् । कर्मक्षयजास्तीर्थकदतियाः ASHUSHAHISISHT ॥२२१॥ Jain Education Interior For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy