SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ द्वितीयं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥२२०॥ तृतीयः सर्ग: अजितसगरयोश्चरितम् । HOSSESSORSOGO समवसरणम् पुरुहूतः समाहूताशेषदेवः क्षणादपि । ऋद्ध्या महत्या भक्क्येव, जिनेन्द्राभ्यर्णमाययौ ॥ ३५३॥ सर्वेऽन्येऽप्यासनकम्पाद, विज्ञातस्वामिकेवलाः। अहम्पूर्विकयेवेयुः, सममिन्द्रा जिनान्तिके ॥३५४॥ क्षेत्रे योजनमात्रे च, देवा वायुकुमारकाः। अपनिन्युः शर्करादि, ते यदत्राधिकारिणः ॥३५५॥ तत्र गन्धाम्बुवृष्टिं च, सुरा मेघकुमारकाः। रजोमात्रप्रशमनी, शरदष्टिनिभां व्यधुः ॥ ३५६॥ वर्ण-रत्नशिलास्तोमर्मसृणैस्तन्महीतलम् । बबन्धुर्वन्धुरतरं, चैत्यमध्यमिवाऽमराः ॥ ३५७ ॥ मेराणि जानुंदनानि, पञ्चवर्णान्य॒तुश्रियः । ववृषुस्तत्र पुष्पाणि, प्रत्यूषपवना इव ॥ ३५८॥ अन्तः कृत्वा मणिस्तूपं, परितस्तमधो व्यधुः। रौप्यं भवनपतयो, वर्ग रैकपिशीर्षकम् ॥ ३५९ ॥ वप्रं द्वितीयं ज्योतिष्काः , सरत्नकपिशीर्षकम् । विदधुः काञ्चनैरात्मज्योतिभिरिव पिण्डितैः॥३६०॥ प्राकारं चोपरितनं, वैमानिकदिवौकसः । रविरचयाञ्चकुर्माणिक्यकपिशीर्षकम् ॥ ३६१॥ वप्रे वप्रे च चत्वारि, जगत्यामिव जज्ञिरे । मनोविश्रामधामानि, चारुद्वाराणि तत्र च ॥ ३६२ ॥ पत्रैर्मारकतैरासन्, द्वारे द्वारे च तोरणाः । अम्बरे विचरचारुश्रेणीभूतशुकोपमाः ॥ ३६३ ॥ तोरणानुभयतश्च, कुम्भा मुखकृताम्बुजाः । न्यास्यन्त सिन्धूरभितश्चक्रा इव दिनात्यये ॥ ३६४॥ द्वारे द्वारेऽभवद् वापी, काञ्चनाम्भोजशालिनी । स्वच्छ-स्वादुपयःपूर्णा, मङ्गल्यकलशोपमा ॥ ३६५ ॥ धूपघट्यः प्रतिद्वारं, हैम्यो मुमुचिरेऽमरैः । धृपधूमारकतांस्तन्वन्त्यस्तोरणानिव ॥ ३६६ ॥ १ स्निग्धैः । २ विकसितानि । ३ जानुप्रमाणानि । ४ अवधिष्ठायिका देव्यः । ५ मणिपीठम् । ६ सुवर्णमयकपिशीर्षकम् ।। जम्बूद्वीपस्य दुर्गे। ८ नदीः। ॥२२०॥ Jain Education a l For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy