SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते द्वितीयं पर्व तृतीया सर्गः अजित ॥२१९॥ सगरयो चरितम् । ललाटन्तपतपनातपे ग्रीष्मऋतावपि । नाऽऽचकास तरुच्छायामपि देहेऽपि निःस्पृहः ॥ ३२४॥ पतत्तुहिनसम्भारप्लुष्यमाणतरावपि । हेमन्ततौं प्रभुनैच्छद्, दीप्तपित्त इवाऽऽतपम् ॥ ३२५॥ झञ्झानिलोल्वणैर्धारासारैरपि पयोमुचाम् । मतङ्गजो वारिचर, इव नोद्विविजे विभुः॥३२६ ॥ परीषहानेवमन्यानपि सेहे सुदुःसहान् । सर्वसहो धरणिवद्, धरणीतिलकः प्रभुः॥ ३२७ ॥ उग्रैस्तपोभिर्विविधैर्विविधाभिग्रहैरपि । परीषहसहोऽब्दानि, द्वादशाऽलङ्घयत् प्रभुः ॥ ३२८॥ खड्डीव स्वाम्यनासीनः, खङ्गिशृङ्गमिवैककः । सुमेरुरिव निष्कम्पः, पश्चानन इवाऽभयः ॥ ३२९ ॥ वायुरिवाऽप्रतिबद्धो, भुजङ्गम इवैकदृक् । वहिना काञ्चनमिव, तपसातिशयानरुक ॥ ३३०॥ वृतिभिर्वरशाखीव, तिसृभिर्गुप्तिभिर्वृतः । समितीः पञ्च बिभ्राणो, धन्वी हस्त(स्ते) शरानिव ॥ ३३१॥ आज्ञा-ऽपाय-विपाकानां, संस्थानस्य च चिन्तनात् । ध्यायंश्चतुर्विधं ध्येयं, ध्येयरूपः स्वयं विभुः ॥३३२॥ प्रतिग्राम प्रतिपुरं, प्रत्यरण्यं च पर्यटन् । समाययावुपवनं, सहस्राम्रवणं क्रमात् ॥ ३३३ ॥ ॥पञ्चभिः कुलकम् ॥ तत्र च्छत्रायमाणस्य, सप्तच्छदतरोस्तले । तत्प्रकाण्डमिवाऽकम्पस्तस्थौ प्रतिमया प्रभुः ॥३३४ ॥ अप्रमत्तसंयताख्यगुणस्थानात् तदा विभुः । अपूर्वकरणं भेजे, गुणस्थानकमष्टमम् ॥ ३३५ ।। श्रौतादाद् व्रजन् शब्द, शब्दादर्थ वजन् ययौ । नानात्वश्रुतवीचारं, शुक्लध्यानमथाऽऽदिमम् ॥३३६।। अनिवृत्तिबादराख्यं, परिणामानिवृत्तिकृत् । आरुरोह गुणस्थानं, ततश्च नवमं विभुः ॥ ३३७ ॥ . सूर्यः। २ हस्ती। ३ वृक्षकाण्डम् । USAASAASLUSASUGARSISIRISH अजितजिनस्योनचर्या ॥२१९॥ Jain Education Internal For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy