________________
महेभभज्यमानढुविद्रुतद्रोणराविषु । सिंहपुच्छच्छटाच्छोटस्फोट्यमानाश्मभूमिषु ॥ ३१२ ॥ शरभोत्पिष्टदन्तीन्द्रकीकसाकुलवर्त्मसु । मृगयाव्यग्रशवरधनुर्नादानुनादिषु ।। ३१३ ॥ भट्रककर्णग्रहणव्यग्रभिल्लाभकेषु च । अन्योऽन्यतरुशाखाग्रसङ्घर्षाच्छलदग्निषु ॥ ३१४॥ महागिरि-महारण्येष्वपि ग्राम-पुरेष्विव । निष्प्रकम्पमनाः कामं, व्यहार्षीदजितप्रभुः॥३१५ ॥
॥षद्धिः कुलकम् ॥ भूतलालोकमात्रेण, जायमानजनभ्रमौ । कदाचन गिरेर्मूर्ध्नि, शृङ्गान्तरमिव स्थिरः ॥ ३१६ ॥ उत्फालमर्कटकुलभज्यमानास्थिसन्धिनि । कदाचन महासिन्धुरोधःसीमनि वृक्षवत् ।। ३१७॥ क्रीडदुत्तालवेताल-पिशाच-प्रेतसङ्घले । वात्यावर्तितधूलीके, श्मशाने च कदाचन ॥ ३१८॥ रौद्रेभ्योऽपि हि रौद्रेषु, स्थानेष्वन्येष्वपि प्रभुः । कायोत्सर्ग निसर्गकधीरो व्यधित लीलया ॥ ३१९॥
॥चतुर्भिः कलापकम् ॥ तपश्चतुर्थं कदाचित्, तपः षष्ठं कदाचन । तपोऽष्टमं कदाचिच्च, कदापि दशमं तपः॥३२०॥ अन्यदा द्वादशतपश्चतुर्दशतपोऽन्यदा । अन्यदा पोडशतपस्तपोऽष्टादशमन्यदा ॥ ३२१ ॥ एकदा मासिकं च द्विमासिकं च त्रिमासिकम् । चतु:-पञ्च-पण्मासिकान्यप्यथो सप्तमासिकम् ॥ ३२२॥ तपोऽष्टमासिकं यावद्, भगवानजितप्रभुः । विदधे विहरनार्यदेशेष्वक्षीणशक्तिकः ॥ ३२३ ।।
॥चतुर्भिः कलापकम् ।। १ उडीनः। २ काकः। ३ अष्टापदः। ५ अस्थि । ५ ऋक्षः। ६ अन्यच्छिखरमिव । * सह ३ एवं वर्त्तते ।
अजितप्रभोस्तपः
Jain Education Intern
For Private & Personal use only
www.jainelibrary.org