SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ अजितजिनदानप्रभावात् पञ्च दिव्यानि हित्वा कषायान् मलवत् , कृपाजलपरिप्लुतः । त्वमेवासि विशुद्धात्मा, निर्लेपः पद्मपत्रवत् ॥ २८४ ॥ राज्येऽपि न्यायनिष्ठस्य, न खो न च परस्तव । प्राप्तावसरमेतत् तेऽधुना साम्यं किमुच्यते ॥ २८५॥ वितर्कयामि भगवन् !, दानं यद् वार्षिकं तव । त्रैलोक्याभयदानोरुनाटकस्याऽऽमुखं हि तत् ।। २८६ ॥ धन्यास्ते विषया ग्रामा, नगर्यः पत्तनानि च । मलयानिलवद् यानि, प्रीणयन् विहरिष्यसे ॥ २८७ ।। स्तुत्वेति स्वामिनं राजा, नमस्कृत्य च भक्तितः। मन्दं मन्दं ययौ बाष्पक्लिन्ननेत्रो निजां पुरीम् ॥२८८॥ द्वितीयस्मिन् दिने स्वामी, ब्रह्मदत्तनृपौकसि । चकार षष्ठतपसः, परमानेन पारणम् ॥ २८९॥ ववृपुत्रिदशाः सार्धस्वर्णद्वादशकोटिकाम् । वसुधारां ब्रह्मदत्तनरेश्वरगृहाङ्गणे ॥ २९ ॥ उन्नमद्वाहवश्वेलाञ्चलानुचिक्षिपुः सुराः । अनिलान्दोलितलतापल्लवश्रीमलिम्लुचान् ॥ २९१॥ वेलाविलोलजलधिध्वानधीरध्वनिस्तथा । दध्वान दुन्दुभियॊग्नि, सानन्दामरताडितः ।। २९२ ।। पर्यटत्स्वामियशसां, स्खेदवारिभ्रमप्रदाम् । तत्र गन्धाम्बुवृष्टिं च, त्रिविष्टंपसदो व्यधुः ॥ २९३ ॥ अन्वीयमानां परितो, मित्रैरिव मधुवतैः । पञ्चवर्णपुष्पवृष्टिं, विदधुर्विबुधोत्तमाः ॥ २९४ ॥ अहो! दानं महादानं, सुदानमिदमस्य हि । प्रभावात् तत्क्षणं दाता, भवत्यतुलवैभवः ॥२९५॥ मुच्यते च भवेत्रैव, कश्चित् कश्चित् तृतीयके । द्वितीये कल्पातीतेषु, कल्पेषूत्पद्यतेऽथवा ॥ २९६ ॥ एवं कोलाहलं व्योनि, चक्रुर्मुदितचेतसः । दिवौकसो जयजयारावपूर्वकमुच्चकैः ॥ २९७ ॥ ॥त्रिभिर्विशेषकम् ॥ १ प्रस्तावना। २ देवाः। भ्रमरैः । त्रिषष्टि. ३८ Jain Education inte For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy