SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ त्रिपष्टि शलाका पुरुषचरिते ॥२१७॥ Jain Education Intern विवेकशाणैर्वैराग्यशस्त्रं शातं तथा त्वया । यथा मोक्षेऽपि तत् साक्षादकुण्ठितपराक्रमम् ॥ २७० ॥ यदा मैरुन्नरेन्द्र श्रीस्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम, विरक्तत्वं तदापि ते ॥ २७१ ॥ नित्यं विरक्तः कामेभ्यो, यदा योगं प्रपद्यसे । अलमेभिरिति प्राज्यं, तदा वैराग्यमस्ति ते ।। २७२ ॥ सुखे दुःखे भवे मोक्षे, यदौदासीन्यमीशिषे । तदा वैराग्यमेवेति, कुत्र नाऽसि विरागवान् १ ।। २७३ ।। दुःखगर्भे मोहगर्भे, वैराग्ये निष्ठिताः परे । ज्ञानगर्भ तु वैराग्यं, त्वय्येकायनतां गतम् ॥ २७४ ॥ औदासीन्येऽपि सततं, विश्वविश्वोपकारिणे । नमो वैराग्यनिनाय, तायिने परमात्मने ॥ २७५ ॥ जगद्गुरुमिति स्तुत्वा, नमस्कृत्य च सामराः । तेऽमरखामिनो जग्मुद्वीपं नन्दीश्वरं ततः ॥ २७६ ॥ जन्माभिषेकवत् तत्र, पर्वतेष्वञ्जनादिषु । शाश्वतार्हत्प्रतिमाष्टाह्निकां शक्रादयो व्यधुः ॥ २७७ ॥ नाथं कदा नु भूयोऽपि द्रक्ष्याम इति वादिनः । सदेवा देवपतयः, खं खं स्थानं ततो ययुः ॥ २७८ ॥ सगरोऽपि सभूपालः प्रणम्य परमेश्वरम् । कृताञ्जलिर्गद्गदवागिति स्तोतुं प्रचक्रमे ॥ २७९ ॥ भगवन्नजितखामिन्!, विजयख जगद्गुरो ! । त्रैलोक्यपद्मिनीखण्डविकासनदिवाकर ! ॥ २८० ॥ मति श्रुताऽवधि-मनः पर्ययैर्नाथ ! शोभसे । ज्ञानैश्चतुर्भिरुदामैरणवैरिव मेदिनी ॥ २८९ ॥ त्वं लयाऽपि कर्माणि, प्रोन्मूलयितुमीशिषे । अयं परिकरस्ते तु लोकानां मार्गदर्शकः ॥ २८२ ॥ भगवन्नन्तरात्मा त्वं मन्येऽहं सर्वदेहिनाम् । तेषामद्वैतसौख्याय, यतसे कथमन्यथा १ ॥ २८३ ॥ १ तीक्ष्णीकृतम् । २ देवेन्द्राणां राज्ञां च श्रीः । ७ क्रीडामात्रेण । ८ उपकरणम् । ३ अतिशयितम् । ४ वैराग्याधीनाय । ५ रक्षित्रे । ६ वितर्के । For Private & Personal Use Only द्वितीयं पर्व तृतीयः सर्गः अजित सगरयो - श्वरितम् । अजितप्रभोः प्रव्रज्या ॥२१७॥ www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy