________________
SAISUUSASSASSASSAGE*
आरात्रिकं सप्तशिखं, काश्चिद् वह्निमिवोद्दधुः । पूर्णपात्राण्यधुः काश्विद्, यशांसीव पुरः प्रभोः ॥२२८॥ पूर्णकुम्भान् दधुः काश्चिन्मङ्गलानां निधीनिव । खे सन्ध्याभ्रनिभं चक्रुः, काश्चिद् वस्त्रावतारणम् ॥ २२९॥ मङ्गलानि जगुः काश्चिन्नृत्यन्ति स च काश्चन । रुचिरं जहसुः काश्चिन्मुदिताः पौरयोषितः ॥ २३० ॥ |
॥ चतुर्भिः कलापकम् ॥ व्योमापि व्यानशे भक्तैर्विद्याधर-सुरा-ऽसुरैः । इतस्ततो धावमानैः, सौपर्णेयकुलैरिव ॥ २३१ ॥ इन्द्राणां च चतुःषष्टे व्यानीकैरनेकशः। नाटकान्यभ्यनीयन्त, स्वाम्यग्रे धन्यमानिभिः॥ २३२ ॥ सङ्गीतकानि गन्धर्वसैन्या अपि बिडौजसाम् । ओजायमाना युगपञ्जायमानमुदो व्यधुः ॥ २३३ ॥ सगरानुजीविनोऽपि, जायाजीवाः पदे पदे । पात्रैर्विचित्रैर्नाट्यानि, दिविषत्स्पर्धया व्यधुः ॥ २३४ ॥ अयोध्यामण्डनं राजगन्धर्वरमणीजनाः । विश्वदृग्दृष्टिबन्धन्ति, प्रेक्षणीयानि चक्रिरे ॥ २३५॥ तदा च दिव्यैौंमैश्च, नाट्यसङ्गीतकखरैः । रोदःकुक्षिम्भरिरभूदुत्तालस्तुमुलध्वनिः ॥ २३६ ॥ अनेकनृप-सामन्त-महेभ्यानां प्रचारिणाम् । सम्मर्दत्रुटितहारैरासन् शर्करिला भुवः॥ २३७॥ दिव्यानामथ भौमानां, मत्तानां वरदन्तिनाम् । मदाम्भोभिरजायन्त, राजमार्गाश्च पङ्किलाः ॥२३८॥ सुरा-ऽसुर-नरैः सर्वैर्मिलितैः स्वामिनोऽन्तिके । एकाधीशतया रेजे, त्रिलोक्यप्येकलोकवत् ॥ २३९॥ अत्यन्तदक्षिणो लोकदाक्षिण्येन जगत्पतिः। प्रतीयेष निरीहोऽपि, मङ्गलानि पदे पदे ॥२४॥ सम्भूय गच्छतस्तत्र, सुरानपि नरानपि । समप्रसादया दृष्ट्याऽनुजग्राह जगद्गुरुः ॥ २४१॥
गरुडसमूहैः । २ नर्तकाः । ३ शर्करायुक्ताः।
Jain Education
i
www.jainelibrary.org,
n
For Private & Personal use only
al