SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ द्वितीय पर्व त्रिषष्टिबलाकापुरुषचरिते तृतीयः । सर्गः ॥२१५॥ अजितसगरयोश्चरितम् । काचन प्रस्खलन्तीपु, सदा सहचरीष्वपि । काश्चिद् वक्षःस्थलास्फालाद्धारेषु प्रत्रुटत्स्वपि ॥ २१५॥ अंसाद् विस्रंसमानेषूत्तरीयेष्वपि काश्चन । काश्चिच्छ्न्यीभवद्वारेष्वपि गेहाङ्गणेषु च ॥ २१६॥ काश्चिद् देशान्तरादिष्टातिथिष्वभ्यागतेष्वपि । पुत्रजन्मोत्सवे सद्यः, समुत्पन्नेऽपि काश्चन ॥२१७ ॥ काश्चित् तत्कालमुद्वाहलग्नकालेऽप्युपस्थिते । काश्चन स्नानोपनतेष्वपि स्नानीयवस्तुषु ॥ २१८॥ गृहीताचमनाः काश्चिदर्धभुक्तेऽपि भोजने । काश्चिदर्थोपयुक्तेऽपि, कालप्राप्ते विलेपने ॥ २१९ ॥ कुण्डलादिष्वलङ्कारेष्वर्धामुक्तेषु काश्चन । स्वामिनिष्क्रमणोदन्तेऽर्धश्रुतेऽपि हि काश्चन ॥२२०॥ धम्मिल्लान्तः काश्चिदर्धबद्धे कुसुमदामनि । अधिभालस्थलं काश्चित् , तिलकेऽर्धकृतेऽपि हि ॥ २२१॥ गृहकर्तव्यमत्रेषु, काश्चिदोदितेष्वपि । काश्चिदर्घकृतेष्वेव, नित्यनैमित्तिकेष्वपि ॥ २२२ ॥ सम्भ्रमात् पादचारेण, यानेषूपस्थितेष्वपि । उपेयुः खामिनं द्रष्टुं, पौर्यो भक्तिपवित्रिताः ॥ २२३ ॥ ॥नवभिः कुलकम् ॥ क्षणमग्रे क्षणं पृष्ठे, क्षणं चोभयपार्श्वयोः। यूथपस्येव कलभाः, पौरास्तस्थुर्जगत्प्रभोः॥ २२४ ॥ अट्टानारुरुहुः केचित् , कुट्टिमानि च केचन । प्रासादाग्राणि केचित् तु, मश्चाग्राणि च केचन ॥२२५॥ केपि प्राकारशृङ्गाणि, केपि द्रुशिखराणि च । केऽप्युच्चैः सिन्धुरस्कन्धान् , स्वामिदर्शनकाम्यया ॥२२६॥ ॥ युग्मम् ॥ अञ्चलांश्चालयामासुः, काश्चिच्चामरलीलया । लाजान् प्रचिक्षिपुः काश्चिद्धर्मबीजमिवाऽवनौ ॥ २२७॥ अर्धपरिहितेषु । २ कबरीमध्ये। ३ गृहकार्यविचारेषु । ४ गजस्येव । ५ गजस्कन्धान् । | अजितजिन प्रव्रज्यामहोत्सवः AARRRrrrrr ॥२१५॥ For Private & Personal use only www.jainelibrary.org Jain Education in
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy