________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
तृतीया सर्गः
॥२१४॥
अजितसगरयोचरितम् ।
ततश्चाऽदत्त वर्षेण, हेम्नः कोटिशतत्रयम् । अष्टाशीति तथा कोटीर्लक्षाशीति तथा प्रभुः॥१८६॥ अनुभावेन कालस्य, स्वामिनश्च प्रभावतः । यथेप्सितप्रदानेऽपि, नाधिकग्राहिणोऽभवन् ॥ १८७॥ कृपाधनो धिनोति स्म, धनैरेवं धरां प्रभुः। चिन्तामणिरिवाऽचिन्त्यमहिमा वत्सरावधि ॥ १८८॥ । अथ वार्षिकदानान्ते, शक्रस्याऽचलदासनम् । अवधिज्ञानतोऽज्ञासीत, स च दीक्षाक्षणं विभोः ॥१८९॥ चचाल च हेरिर्देवैः, समं सामानिकादिभिः । दीक्षाक्षणे भगवतः, कर्तु निष्क्रमणोत्सवम् ॥१९॥ विमानै रचयन्नाशाः, सञ्चरन्मण्डपा इव । उत्तुङ्गवारणवरैरुत्पतत्पर्वता इव ॥ १९१ ॥ आक्रामन् व्योम तुरगैस्तरङ्गैरिव सागरः । आघट्टयन् रविरथं, रथैरस्खलितस्सदैः॥ १९२॥ नभस्तलं तिलकयन, किङ्कणीमालभारिभिः। ध्वजांशुकैश्च दिग्दन्तिकर्णतालानुहारिभिः ॥ १९३॥ गीयमानोऽमरैः कैश्चिद्, गान्धारग्रामबन्धुरम् । स्तूयमानस्तथा कैश्चित, सत्काव्यकुलकर्नवैः॥ १९४ ॥ कैश्चिद् विज्ञप्यमानश्च, मुखदत्तपटाञ्चलैः । संसार्यमाणः कैश्चिच्च, प्राक्तनीस्तीर्थकृत्कथाः॥ १९५॥ पवित्रितां खामिपादैर्मन्यमानोऽधिकां दिवः । दिवस्पतिरुपेयाय, विनीतानगरी क्षणात् ॥ १९६ ॥ अन्येऽप्यासनकम्पेन, ज्ञात्वा दीक्षाक्षणं विभोः। सुरेन्द्रा असुरेन्द्राश्च, विनीतां तद्वदाययुः ॥ १९७॥ तत्राऽच्युताद्या देवेन्द्रा, नरेन्द्राः सगरादयः । दीक्षाभिषेकं विदधुः, क्रमेण परमेशितुः॥१९८॥ वाससा देवदृष्येण, वपुः स्नानजलाविलम् । ममार्ज शको माणिक्यमिव वैकेटिकाग्रणीः ॥ १९९॥ गन्धकार इवाऽऽयुक्तो, वज्रपाणिः खपाणिना । चर्चयामास रुचिरैरङ्गरागैजेंगद्गुरुम् ।। २००॥
दीक्षासमयम् । २ इन्द्रः । ३ अकुण्ठितवेगैः । * पद्भिः कुलकम् सङ्घ १ सङ्घ ३॥ ४ आईम् । ५ मणिकारमुख्यः ।
CARRIAGARCANCIAGAR
अजितजिनप्रवज्यामहोत्सवः
॥२१४॥
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org