________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
प्रथमः
। सर्गः
॥२०॥
MUCLOSURES
ऋषभचरितम् ।
साऽपालयन्न तां सम्यगवर्द्धिष्ट तथापि सा । जन्तोर्वजाहतस्यापि, मृत्यु ऽत्रुटितायुषः॥ ५४२ ॥ अत्यन्तदुर्भगा मातुरप्युद्वेगविधायिनी । सा कालं गमयत्यन्यगृहे दुष्कर्म कुर्वती ॥ ५४३ ॥ एकस्मिन्नुत्सवेऽन्येधुराढ्यबालकपाणिषु । ईक्षित्वा मोदकान् सापि, ययाचे मातरं निजाम् ॥ ५४४॥ दन्तैर्दन्तान् घर्षयन्ती, तामम्बाऽपीदमब्रवीत् । याचसे मोदकान् युक्तं, मोदकांदी पिताऽपि ते ॥५४५॥ यदि मोदकलिप्सुस्त्वं, रज्जुमादाय गच्छ तत् । शैलमम्बरतिलक, दारुभारकृते हले!॥५४६ ॥ करीपाग्निसोदरया, दह्यमाना तया गिरा । रुदती रजुमादाय, तं पर्वतमियाय सा ॥ ५४७ ॥ ___ अरेस्तस्य शिरस्यैकरात्रिकप्रतिमानुषः । केवलज्ञानमुत्पदे, युगन्धरमुनेस्तदा ॥ ५४८॥ तस्याऽथ सन्निहिताभिर्देवताभिः प्रचक्रमे । तत्कालं केवलज्ञानमहिमाख्यो महोत्सवः ॥ ५४९ ॥ पर्वतासन्ननगरग्रामवासी ततो जनः । अहंपूर्विकया तत्र, तं वन्दितुमुपाययौ ॥ ५५० ॥ तत्रै यान्तं जनं दृष्ट्वा, नानाभरणभूषितम् । तस्थौ निर्नामिका चित्रलिखितेवाऽतिविस्मयात् ॥ ५५१॥ सा परम्परया ज्ञात्वा, लोकागमनकारणम् । दारुभारं दुःखभारमिवोत्सृज्याऽचलत् ततः॥५५२॥ जनेन सह तेनाऽथ, माऽपि निर्नामिका गिरिम् । तमारुरोह तीर्थानि, सर्वसाधारणानि यत् ॥ ५५३ ॥ कल्पपादपवत् पादौ, मन्यमाना महामुनेः । सा सानन्दमवन्दिष्ट, मतिर्गत्यनुसारिणी ॥ ५५४ ॥ लोकमाह्लादयन्नब्द, इब गम्भीरया गिरा । मुनिविश्वजनीनोऽथ, विदधे धर्मदेशनाम् ।। ५५५॥ आमसूत्रव्यूतखदाधिरोहणसहोदरम् । भवभूमौ निपाताय, नृणां विषयसेवनम् ॥ ५५६ ।। १ धनिबालककरेषु । २ मोदकभक्षकः । तत्रायान्तं आ ३ विश्वहितकर्ता । ४ अपक्कसूत्रव्यूतखटाधिरोहणसदृशम् ।।
पूर्वभवचरिते पञ्चमो ललिताङ्गदेवभवः।
PASSRUSSISSAGE
॥२०॥
Jan Education interna
For Private & Personal use only
www.jainelibrary.org