SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ १९ ॥ Jain Education Internatio परस्परमभूच्चेतस्तयोर्लीनं निरन्तरम् । निगडेनेव रागेण, निविडेन नियन्त्रितम् ॥ ५१३ ॥ रममाणस्तया सार्द्धमच्छिन्नप्रेमसौरभः । गमयामास भूयांसं, कालमेकां कलामिव ॥ ५१४ ॥ दलं वृक्षादिव दिवस्ततो ऽच्योष्ट स्वयम्प्रभा । आयुःकर्मणि हि क्षीणे, नेन्द्रोऽपि स्थातुमीश्वरः ||५१५ || आक्रान्तः पर्वतेनेव, कुलिशेनेव ताडितः । प्रियाच्यवनदुःखेन, ललिताङ्गोऽथ मूच्छितः ॥ ५१६ ॥ लब्धसंज्ञः क्षणेनाऽथ, विललाप मुहुर्मुहुः । विमानं श्रीप्रभमपि, प्रतिशब्दैर्विलापयन् ॥ ५१७ ॥ प्राप नोपवने प्रीतिं न वाप्यामपि निर्ववौ । क्रीडाशैलेऽपि न स्वस्थान्नानन्दन्नन्दनेऽपि सः ॥ ५९८ ॥ हा प्रिये ! हा प्रिये ! काऽसि, क्वाऽसीति विलपन्नसौ । स्वयम्प्रभामयं विश्वं पश्यन् बभ्राम सर्वतः ॥५१९ ॥ इतश्च स्वामिमरणोत्पन्नवैराग्यवासनः । स्वयम्बुद्धोऽप्यात्तदीक्षः, श्रीसिद्धाचार्यसन्निधौ ॥ ५२० ।। सुचिरं निरतीचारं, पालयित्वा व्रतं सुधीः । ऐशाने दृढधर्माख्य, इन्द्रसामानिको ऽभवत् ॥ ५२१ ॥ [ सन्दानितकम् ] स पूर्वभवसम्बन्धाद्, बन्धुवत् प्रेमबन्धुरः । आश्वासयितुमित्यूचे, ललिताङ्गमुदारधीः ॥ ५२२ ॥ किं मुह्यसि महासत्व !, महिलामात्रहेतवे ? । धीराः प्राणावसानेऽपि न हि यान्तीदृशीं दशाम् ।। ५२३ ॥ ललिताङ्गोऽप्युवाचेति, बन्धो ! किमिदमुच्यते ? । प्राणान्तः सुसहः कान्ताविरहस्तु सुदुःसहः || ५२४ | | | एकैव ननु संसारे, सारं सारङ्गलोचना । यां विना नूनमीदृश्योऽप्यसाराः सर्वसम्पदः ॥ ५२५ ॥ तदुःखदुःखितः सोऽपीशानसामानिकः सुरः । दत्त्वोपयोगमवधिज्ञानाज्ज्ञात्वाऽब्रवीदिति ॥ ५२६ ॥ १ शृङ्खलया । २ शान्ति जगाम । * स्वस्थो, नानन्दनन्द सं १, २ ॥ For Private & Personal Use Only प्रथमं पर्व प्रथमः सर्गः ऋषभ चरितम् । पूर्वभवचरिते पञ्चमो ललिताङ्गदेवभवः । ॥ १९ ॥ www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy