________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ १८ ॥
Jain Education Intern
तवै रम्यरमणीरमणीयतराङ्गणाः । मनःप्रसादजननाः, प्रासादा रत्ननिर्मिताः ॥ ४८४ ॥ अमूर्वाप्यो रत्नमय्यः, सौवर्णकमलाकराः । तवांक्रीडनगाचैते, रत्नकाञ्चनसानवः || ४८५ ॥ एताः स्वच्छजलाः क्रीडानद्यः सद्यः प्रमोददाः । क्रीडोद्यानानि चैतानि नित्यपुष्पफलानि ते ॥ ४८६ ॥ सदः सदनमेतत् ते, स्वर्णमाणिक्यनिर्मितम् । आदित्यमण्डलमिव द्युतिद्योतितदिङ्मुखम् ॥ ४८७ ॥ एताश्च चामरादर्शतालवृन्ताकपाणयः । सर्ववारं वारनार्यस्त्वत्सेवैकमहोत्सवाः ॥ ४८८ ॥ अयं चतुर्विधातोद्यचतुरः पुरतस्तव । गन्धर्ववर्गः सङ्गीतकृते सजोऽवतिष्ठते ।। ४८९ ॥
दत्तोपयोगस्तत्कालमवधिज्ञानतस्ततः । स दिनं ह्यस्तनमिव, पूर्वजन्मैवमस्मरत् ॥ ४९० ॥ विद्याधरपतिः सोsहं, स्वयम्बुद्धेन मत्रिणा । धर्ममित्रेण जैनेन्द्र, धर्ममस्मि विबोधितः ॥ ४९१ ॥ प्रव्रज्यां प्रतिपन्नोऽहं तदैवाऽनशनं व्यधाम् । आसदं तत्फलमिदमहो ! धर्मस्य वैभवम् ॥ ४९२ ॥ इति स्मृत्वा समुत्थाय, दत्तबाहु: स वेत्रिणा । सिंहासनमलञ्चक्रे, स्फूर्जजयजयध्वनिः ।। ४९३ ॥ ततोऽभिषिषिचे देवैरवीज्यत च चामरैः । अगीयत च गन्धर्वैः, कलैमङ्गलगीतिभिः ॥ ४९४ ॥ समुत्थाय ततोऽप्येष भक्तिभावितमानसः । गत्वा चैत्येऽर्हत्प्रतिमाः, पूजयामास शाश्वतीः ॥ ४९५ ।। देवैर्ग्रामत्रयोद्गारमधुरे गीतमङ्गले । क्रियमाणे जिनाधीशं, सोऽस्तावीद् विविधैः स्तवैः ॥ ४९६ ॥ ततोऽसौ वाचयामास, पुस्तकान् ज्ञानदीपकान् । आनर्च माणवस्तम्भस्थितान्यस्थीनि चाऽर्हताम् ॥ ४९७ ॥ अथ दिव्यातपत्रेण, पार्वर्णेन्दुसनाभिना । भ्राजिष्णुर्धार्यमाणेन, स लीलासदनं ययौ ॥ ४९८ ॥ १ क्रीडापर्वताः । २ सभागृहम् । ३ व्यजनम् । ४ वेश्या: । ५ मधुरमङ्गलगीतैः । ६ पूर्णिमाचन्द्रतुल्येन ।
For Private & Personal Use Only
प्रथमं पर्व प्रथमः
सर्गः
ऋषभ
चरितम् ।
पूर्वभवचरिते
पञ्चमो ललिताङ्गदेवभवः ।
।। १८ ।।
www.jainelibrary.org