________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥१७॥
प्रथमः
सर्गः ऋषभचरितम् ।
SSASSAMSALAMAUSAMAUSAMASALAM
सर्वसावंद्ययोगानां, विरत्या सममेव सः । चक्रे चतुर्विधाहारप्रत्याख्यानं महामनाः॥४५६॥ असौ समाधिपीयूषड्दमन्नो निरन्तरम् । अम्भोजिनीखण्ड इव, न हि मम्लौ मनागपि ॥ ४५७ ॥ भुञ्जान इव भोज्यानि, पेयान्यपि पिबन्निव । सोऽक्षीणकान्तिरभवन्महासत्त्वशिरोमणिः ॥ ४५८॥ समाहितः स्मरन् पञ्चपरमेष्ठिनमस्क्रियाम् । द्वाविंशतिदिनान् कृत्वाऽनशनं स व्यपद्यत ॥ ४५९ ॥ ___ स स्वयं सम्भृतैः पुण्यैर्दिव्यैरिव तुरङ्गमैः । ऐशानकल्पं तत्कालमाससाद दुरासदम् ।। ४६० ॥ विमाने श्रीप्रभेऽथोपपादे शयनसम्पुटे । विद्युत्पुञ्ज इवाऽम्भोदगर्भे समुदपादि सः॥ ४६१ ॥ दिव्याकृतिः सुसंस्थानः, सप्तधातूज्झिताङ्गकः । शिरीषसुकुमाराङ्गः, कान्तिक्रान्तदिगन्तरः ॥ ४६२ ॥ वज्रकायो महोत्साहः, पुण्यलक्षणलक्षितः । कामरूपोऽवधिज्ञानी, सर्वविज्ञानपारगः ॥ ४६३ ॥ अणिमादिगुणोपेतो, निर्दोषोऽचिन्त्यवैभवः । ललिताङ्ग इति ख्यातः, स यथार्थाभिधोऽभवत् ॥४६४॥ पादयो रत्नकटके, कटिसूत्रं कटीतटे । हस्तयोः कङ्कणद्वन्द्वं, भुजयोरङ्गदद्वयम् ॥ ४६५॥ वक्षःस्थले हारयष्टिः, कण्ठे ग्रैवेयकं तथा । कुण्डले कर्णलतयोः, सकिरीटौ च मूर्धनि ॥४६६ ॥ इत्यादिभूषणग्रामो, दिव्यानि वसनानि च । सर्वाङ्गभूषणं तस्य, यौवनं च सहाऽभवत् ॥ ४६७ ॥
[त्रिभिर्विशेषकम् ]H ननाद नादयन्नाशाः, प्रतिनादेन दुन्दुभिः । पेठुर्जय जगन्नन्देत्यादि मङ्गलपाठकाः॥४६८ ॥ १ सर्वसदोषयोगानाम् । * आत्माराममनाः प्राप, मासान्ते सोऽथ पञ्चताम् आ ॥ २ ग्रीवाभरणम् ।
पूर्वभवचरिते | पञ्चमो ललिताङ्गदेवभवः।
Jain Education International
For Private & Personal use only
www.jainelibrary.org