SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Jain Education International पुत्रप्रेम्णा दिवोऽभ्येत्य, सहारं मणिमालिने । दिव्यमुक्तामयमदात् सोऽयमद्यापि ते हृदि ॥ ४४१ ॥ हरिचन्द्रान्वयेऽभूस्त्वं, सुबुद्धेरन्वये त्वहम् । क्रमागताप्तभावेन, ततो धर्मे प्रवर्त्यसे ॥ ४४२ ॥ यद्विज्ञतमकाण्डे तु श्रूयतां तत्र कारणम् । यदद्य नन्दनेऽद्राक्षं, चारणश्रमणावहम् ॥ ४४३ ॥ जगत्प्रकाशजनकौ, महामोहतमच्छिदौ । एकत्र मिलितौ साक्षात् सूर्याचन्द्रमसाविव ॥ ४४४ ॥ कुर्वन्तौ देशनां तत्र, ज्ञानातिशयशालिनौ । तौ मया समये पृष्टौ प्रमाणं भवदायुषः ॥ ४४५ ॥ ताभ्यां तु भवतो मासमात्रमायुर्निवेदितम् । अतस्त्वां त्वरयाम्यद्य, धर्मायैव महामते । ॥ ४४६ ।। महावलोsथाऽभिदधे, स्वयम्बुद्ध ! धियांनिधे ! । त्वमेवैकोऽसि मे बन्धुर्यन्मत्कार्याय ताम्यसि ॥४४७॥ आक्रम्यमाणं विषयैर्निद्रालुं मोहनिद्रया । मामजागरयः साधु, शीधि किं साधयाम्यतः ? ॥ ४४८ ॥ आयुष्यल्पेऽधुना धर्मः, साधनीयः कियान् मया ? । कीदृशं कूपखननं, सद्यो लग्ने प्रदीपैने ॥ ४४९ ॥ स्वयम्बुद्धोऽयुवाचैवं, मा विपीद दृढीभव । परलोकैकसुहृदं, यतिधर्म समाश्रय ॥ ४५० ॥ अप्येकं दिवसं जीवः, परिव्रज्यामुपेयिवान् । अपवर्गमपि प्राप्नोत्येव स्वर्गस्य का कथा ? ।। ४५१ ।। आमेत्युदित्वा स्वसुतं स्वे पदे प्रत्यतिष्ठित् । महाबलस्तदाचार्यः, प्रासादे प्रतिमामिव ।। ४५२ ।। दीनानाथजनेभ्योऽथ, दयादानमदत्त सः । तथा यथा न कोऽप्यासीद्, याज्जादीनो जनः पुनः || ४५३ || विचित्रवस्त्रमाणिक्यसुवर्णकुसुमादिभिः । स चक्रेऽष्टाहिकां सर्वचैत्येष्विन्द्र इवाऽपरः ।। ४५४ ।। ततश्च क्षमयित्वा स्वजनं परिजनं तथा । दीक्षां मुनीन्द्रपादान्तेऽग्रहीन्मोक्षश्रियः सखीम् ।। ४५५ ।। १ शिक्षय २ अनौ । दाभिज्ञः सं १ ॥ चक्रे सर्वचैत्येषु, पूजां शक्र इवापरः आ ॥ For Private & Personal Use Only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy