________________
तस्यावसानसमये, जज्ञे धातुविपर्ययः । आसन्ननरकक्लेशवणिकामात्रसन्निभः ॥४१२॥ आसीत् कण्टकशय्येव, तूलशय्याऽस्य दुःखदा । निम्बवद् विरसान्यासन् , भोज्यानि सुरसान्यपि ॥४१३॥ चन्दनागरुकर्पूरकस्तूर्यः पूर्तयोऽभवन् । शत्रुवत् पुत्रमित्राद्या, दृशोरुद्वेगहेतवः ॥ ४१४ ॥ कर्णक्लेशाय गीतानि, बभूवुः क्रोष्टुनादवत् । पुण्यच्छेदेऽथवा सर्व, प्रयाति विपरीतताम् ॥ ४१५ ॥ सुखेतरैस्तं विषयोपचारै रतिदैः क्षणम् । कुरुमतीहरिचन्द्रौ, प्रच्छन्नं प्रत्यजागृताम् ॥ ४१६ ॥ चुम्ब्यमान इवाङ्गारैः, प्रत्यङ्गं दाहविह्वलः । रौद्रध्यानपरः प्रापदवसानं स भूपतिः ॥ ४१७ ॥ तस्योर्ध्वदेहिकं कृत्वा, हरिचन्द्रस्तदात्मजः । अशिषद् विधिवद् राज्यं, सदाचारपंथाध्वगः ॥ ४१८॥ सोत्रापि दृष्ट्वाऽयफलं, दृष्ट्वा तन्मरणं पितुः । धर्ममेव पुमर्थेषु, तुष्टावार्क ग्रहेष्विव ॥ ४१९ ॥ सुबुद्धिं बालसुहृदं, श्रावकं सोऽन्यदाऽऽदिशत् । धर्मविद्भ्योऽन्वहं धर्मः, श्रुत्वा शंस्यस्त्वया मम ॥४२०॥ सुबुद्धिर्विदधे नित्यं, तत्तथाऽत्यन्ततत्परः । अनुकूलनिदेशो हि, सतामुत्साहकारणम् ॥ ४२१॥ प्रत्यहं हरिचन्द्रोऽपि, धर्म तत्कथितं भृशम् । श्रद्दधे पापभीतः सन् , रोगभीत इवौषधम् ॥ ४२२ ॥
अन्यदा बहिरुद्याने, शीलन्धरमहामुनेः । उत्पन्ने केवलज्ञानेऽभीयुर्देवास्तमार्चतुम् ॥ ४२३ ॥ सुबुद्धिनैवं कथिते, श्रद्धोल्लिखितमानसः, । स राजा तुरगारूढस्तं मुनीन्द्रमुपाययौ ॥ ४२४ ॥ नमस्कृत्योपविष्टे च, तस्मिन् राज्ञि महामुनिः । विदधे कुमतध्वान्तकौमुदी धर्मदेशनाम् ॥ ४२५॥,
1 दुर्गन्धमय्यः । * °रिश्चन्द्रौ सं १, २ ॥ + 'रिश्चन्द्र सं १, २ ॥ पथानुगः सं २ ॥ इरिश्चन्द्रों से १, २ ॥ २ कुमतान्धकारचन्द्रिकाम् ।
Jain Education Internal
For Private & Personal Use Only
www.jainelibrary.org.