SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ विवाहसमयावं, जम्पत्योः क्षणनाशिनोः। न जायायाः पतिः पत्युन जायेत्यसमञ्जसम् ॥ ३८२॥ इह कृत्वाऽशुभं कर्म, स नाऽमुत्राऽश्नुते फलम् । भुङ्क्तेऽन्यः किन्तु तदिति, कृतनाशाऽकृतागमौ ॥३८३॥ __ तुर्योऽप्युवाच मायाऽसौ, तत्त्वतो नास्ति किञ्चन । दृश्यमानमपि स्वम-मृगतृष्णादिसन्निभम् ॥३८४ ॥ गुरुः शिष्यः पिता पुत्रो, धर्मोऽधर्मो निजः परः । इत्यादि दृश्यते यत् स, व्यवहारो न तात्त्विकम् ॥३८५।। विहाय जम्बुको मांसं, तीरे मीनाय धावितः । मीनोऽथ प्राविशत् तोये, मांसं गृध्रोहरद् यथा ॥३८६॥ तथैहिकसुखं हित्वा, परलोकाय धाविताः । आत्मानमुभयभ्रष्टा, वश्च यन्ते हि ते नराः ॥३८७॥ पाखण्डिनामलीकाज्ञां, श्रुत्वा नरकभीरवः । दण्डयन्ति निजं देहमहो! मोहाद् व्रतादिना ॥ ३८८ ॥ यथा मापातशङ्येकाशिणा नृत्यति लावकः । तथाभिशङ्कय नरकपातं जन्तुस्तपस्यति ॥ ३८९ ॥ ___ खयम्बुद्धोऽब्रवीद् वस्तु,न सच्चेदर्थकृत् कथम् । माया चेदीदृशी तर्हि, स्वमेभः किं न कार्यकृत् ।।३९०॥ कार्यकारणभावं चेद्, वस्तूनां पारमार्थिकम् । न मन्यसे तदा किं त्वं, विभेषि पततोऽशनेः ? ॥ ३९१ ॥ एवं सति न त्वं नाऽहं, न वाच्यं न च वाचकः । तदेष्टप्रतिपत्तिः स्याद्, व्यवहारकरी कथम् ॥३९२॥ ___ वितण्डापण्डितैरेभिः, स्वयं विषयगृभुभिः । देव ! प्रतार्यसे नित्यं, शुभोर्दकपराङ्मुखैः ॥ ३९३ ॥ ततो विवेकमालम्ब्य, विषयांस्त्यज दूरतः । धर्ममेवाश्रय स्वामिन्नत्राऽमुत्र च शर्मणे ॥ ३९४ ॥ __अथ राजाऽब्रवीदेवं, प्रसादसुभगाननः । खयम्बुद्ध ! महाबुद्धे !, साधु साधूक्तवानदः ॥ ३९५ ॥ युक्तं धर्म उपादेयो, न धर्मद्वेषिणो वयम् । उपादीयेत कालेऽसौ, मत्रास्त्रमिव सङ्गरे ॥ ३९६ ॥ , असत्याज्ञाम् । २ पक्षिविशेषः । ३ विषयलोलुपैः । ४ शुभोत्तरकालविमुखैः। * वार्जय स्वा सं १ ॥ ५ युद्धे । Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy