SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथम पर्व प्रथमः सर्गः ऋषभचरितम् । ॥१४॥ पुमान् रामादिरूपेषु, विलग्नेनेह चक्षुषा । वृतिलग्नोपसंव्यानाञ्चलेनेव स्खलत्यहो ! ॥ ३६८ ॥ मुहूर्तसुखदानेन, मोहयन्ती मुहुर्मुहुः । धृतमैत्रीव सङ्गीतिः, कुशलाय न सर्वथा ॥३६९ ॥ तत्पीपस्सैकसुहृदो, धमस्सैकविरोधिनः । नरकस्याकृष्टिपाशान् , विषयान् मुञ्च दूरतः ॥ ३७॥ यत् प्रेष्य एको भवति, स्वामी भवति चाऽपरः । एकः प्रार्थयते भिक्षामपरश्च प्रयच्छति ॥ ३७१ ॥ वाहनं च भवत्येकस्तमन्यश्चाधिरोहति । अभयं याचते चैको, द्वितीयस्तु ददाति तत् ॥ ३७२ ॥ इत्यादि सम्यगेवेह, धर्माधर्मफलं महत् । पश्यन्नपि न मन्येत, यस्तसै स्वस्ति धीमते ! ॥ ३७३ ॥ तसद्वागिवाऽधर्मो, हेयो दुःखनिबन्धनम् । स्वामिन् ! सद्वागिवादेयो, धर्मः शमैंककारणम् ॥ ३७४ ॥ __ऊचे ततः शतमतिर्मात्मा कश्चिदिहाऽपरः । पदार्थविषयज्ञानात् , प्रतिक्षणविभङ्गुरात् ॥ ३७५ ॥ यद्वस्तुषु स्थिरत्वे धीर्वासना तत्र कारणम् । पूर्वापरक्षणानां तदेकत्वं वास्तवं न तु ॥ ३७६ ॥ अथोवाच स्वयम्बुद्धो, वस्तु नास्ति निरन्वयम् । अम्भस्तृणादि हि गवां, हन्त ! दुग्धाय कल्पते ॥३७७॥ आकाशपुष्पवत् कूर्मरोमवच्च निरन्वयम् । नैव वस्तु भवत्यत्र, तद् वृथा क्षणभङ्गधीः ॥ ३७८ ॥ वस्तु चेत् क्षणविध्वंसि, सन्तानः क्षणिको न किम् । सन्तानस्य च नित्यत्वे, समस्तं क्षणिकं कुतः१॥३७९॥ सर्वभावेष्वनित्यत्वे, निहितप्रतिमार्गणम् । स्मरणं प्रत्यभिज्ञा च, कथं नामोपपद्यते ? ॥३८॥ जन्मानन्तरनाशित्वे, द्वितीयक्षणसम्भवी । पित्रोन पुत्रः पितरौ, न पुत्रस्येत्यसङ्गतिः ॥३८१॥ * तत्पाकस्यै सं॥ f अयं श्लोकः सं १ पुस्तके न दृश्यते ॥ असज्जनोक्तिवत् पापो, हेयो सं १॥ निःसन्तानम् । २ न्यासीकृतस्य प्रतियाचनम् । पूर्वभवचरिते चतुर्थो महाबलभवः। ॥१४॥ Jan Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy