________________
यात्येकमेव चैतन्यं, जन्मतोऽन्यत्र जन्मनि । शैशवादिव तारुण्ये, तारुण्यादिव वाईके ॥३५२ ॥ विना हि पूर्वचैतन्यानुवृत्तिं जातमात्रकः । अशिक्षितः कथं बालो, मुखमर्पयति स्तने? ॥ ३५३ ॥ अचेतनेभ्यो भूतेभ्यश्चेतनो जायते कथम् । कारणस्याऽनुरूपं हि, कार्य जगति दृश्यते ॥ ३५४॥ प्रत्येकं युगपद् वा स्याद् , भूतेभ्यश्चेतनो ननु । आद्यः पक्षो यदि तदा, तावन्तश्चेतना न किम् ॥३५५॥ अथ द्वितीयः पक्षः स्यात्, तदा भिन्नखभावकैः । भृतैरेकस्वभावोऽयं, जन्यते चेतनः कथम् ॥३५६ ॥ रूपगन्धरसस्पर्शगुणा तावद् वसुन्धरा । प्रत्यक्षमेतदापोऽपि, रूपस्पर्शरसात्मिकाः ॥ ३५७ ॥ रूपस्पर्शगुणं तेज, एकस्पर्शगुणो मरुत् । अमीषामेवमावालं, व्यक्ता भिन्नस्वभावता ॥ ३५८॥ तोयादिभ्यो विसदृशां, मुक्तानां जन्मदर्शनात् । भूतेभ्योऽचेतनेभ्योऽपि, चेतनः सम्भवीति चेत् ॥३५९॥ तन्न युक्तं यतस्तोयं, मौक्तिकादिषु दृश्यते । एक पौद्गलिक रूपं, वैसदृश्यं ततः कथम् ॥ ३६०॥ किश्च पिष्टोदकादिभ्यो, मदशक्तिरचेतना । अचेतनेभ्यो जातेति, दृष्टान्तश्चेतने कथम् ॥ ३६१ ॥ न च देहात्मनोरैक्यमिति वाच्यं कदाचन । यद्देहे तदवस्थेऽपि, चेतनो नोपलभ्यते ॥ ३६२ ।। यच्चैकः पूज्यते ग्रावा, मूत्राद्यैर्लिप्यतेऽपरः । तदसत् सुखदुःखादि, कुतस्त्यमपचेतने? ॥ ३६३ ॥ ततो देहाद् विभिन्नोऽयमात्माऽस्ति परलोकवान् । विद्यते परलोकोऽपि, धर्माधर्मनिबन्धनम् ॥ ३६४ ॥ अङ्गनालिङ्गनादग्नितापादिव समन्ततः । विलीयते मनुष्याणां, विवेको नवनीतवत् ॥ ३६५ ॥ निरर्गलं बहुरसांस्तांस्तानाहारपुद्गलान् । भुञ्जानो नैव जानाति, मत्तः पशुरिवोचितम् ॥३६६ ॥ चन्दनागरु कस्तूरी-घनसारादिगन्धतः । आक्रामति नरं सद्यो, दन्दशूक इव स्मरः ।। ३६७॥
Jain Education Internatie
For Private & Personal use only
www.jainelibrary.org