________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व प्रथमः
सर्गः ऋषभचरितम् ।
॥१३॥
तदस्ति चेतनो यावत् , चेष्टयते तावदिच्छया । चेतनस्य विनष्टस्य, विद्यते न पुनर्भवः ॥ ३३८ ।। य एव म्रियते जन्तुः, स एवोत्पद्यते पुनः । इत्येतदपि वामात्रं, सर्वथाऽनुपपत्तितः॥ ३३९ ॥ शिरीषकल्पे तत्तल्पे, रूपलावण्यचारुभिः । रमणीभिः समं स्वामी, रमतामविशङ्कितम् ॥ ३४० ॥ भोज्यान्यमृतरूपाणि, पेयानि च यथारुचि । खाद्यन्तां स्वामिना खैरं, स वैरी यो निषेधति ॥ ३४१॥ कर्परागरुकस्तूरीचन्दनादिभिराँचितः । एकसौरभ्यनिष्पन्न, इव तिष्ठ दिवानिशम् ॥ ३४२ ॥ उद्यानयानजगतीचित्रशालादिशालि यत् । तत्तत् क्षितीश ! प्रेक्षस्ख, चक्षुःप्रीत्यै प्रतिक्षणम् ॥ ३४३ ॥ वेणुवीणामृदङ्गानुनादिभिर्गीतनिखनैः । दिवानिशं तव स्वामिन्नस्तु कर्णरसायनम् ॥ ३४४॥ यावजीवेत् सुखं जीवेत् , तावद् वैषयिकैः सुखैः । न ताम्येद् धर्मकार्याय, धर्माधर्मफलं व तत् ॥३४५॥ ___ स्वयम्बुद्धस्ततोऽवादीनास्तिकैः स्वपरारिभिः । अन्धैरन्धा इवाकृष्य, पात्यन्ते धिगधो जनाः ॥३४६॥ खसंवेदनवेद्योऽयमात्माऽस्ति सुखदुःखवित् । निषेधितुं बाधाभावाच्छक्यते न हि केनचित् ॥ ३४७॥ सुखितोऽहं दुःखितोऽहमिति कस्यापि जातुचित । जायते प्रत्ययो नैव, विनाऽऽत्मानमवाधितः ॥३४८॥ खशरीरे स्वसंवित्तेरेवमात्मनि साधिते । अस्त्येव परकीयेऽपि, शरीरे सोऽनुमानतः ॥३४९ ॥ निश्चीयते शरीरेऽस्ति, परकीयेऽपि चेतनः । सर्वत्र बुद्धिपूर्वायाः, क्रियाया उपलम्भतः॥३५॥ । य एव म्रियते जन्तुः, स एवोत्पद्यते पुनः । अस्त्येवं परलोकोऽपि, चेतनस्य न संशयः ॥ ३५१॥
१ असिद्धितः । २ शिरीषकुसुमतुल्ये । ३ शव्यायाम् । * भिरर्चितः सं १, आ॥ ४ सागन्भ्योत्पन्नः । ५ कर्णामृतम् । स्वानुभववेद्यः । ७ विश्वासः। ८ स्वानुभवात् । ९ प्राप्तः ।
पूर्वभवचरिते चतुर्थो महाबलभवः।
॥१३॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org,