________________
____देर्शरात्रिरिवाऽत्यन्तमिथ्यात्वतिमिराकरः । ततो विषोपममतिः, सम्भिन्नमतिरत्रवीत् ॥ ३२४॥ साधु साधु खयम्बुद्ध, स्वामिनो हितकाम्यसि । यदाहार इवोद्गारैर्गिरा भावोऽनुमीयते ॥ ३२५॥ . ऋजोः सदा प्रसन्नस्य, स्वामिनः सुखहेतवे । वदन्त्येवं कुलामात्यास्त्वादृशा एव नाऽपरे ॥ ३२६ ॥ निसर्गकठिनः कस्त्वामुपाध्यायोऽध्यजीगपत ? । अकाण्डाशनिपाताभ, प्रभौ यदिदमब्रवीः ॥ ३२७ ॥ वयं भोगार्थिभिः स्वामी, सेव्यते सेवकैरिह । मा भुंक्थास्त्वं तु भोगानित्युच्यते स कथं नु तैः ॥३२॥ त्यक्त्वा यदैहिकान् भोगान् , परलोकाय यत्यते । हित्वा हस्तगतं लेयं, कूर्परालेहनं हि तत् ॥ ३२९ ॥ परलोकफलो धर्मः, कीर्यते तदसङ्गतम् । परलोकोऽपि नाऽस्त्येवाऽभावतः परलोकिनः ॥ ३३० ।। पृथ्व्यप्तेजःसमीरेभ्यः, समुद्भवति चेतना । गुडपिष्टोदकादिभ्यो, मदशक्तिरिव स्वयम् ॥ ३३१ ॥ शरीरान पृथक् कोऽपि, शरीरी हन्त ! विद्यते । परित्यज्य शरीरं यः, परलोकं गमिष्यति ॥ ३३२ ॥ निःशङ्कमुपभोक्तव्यं, ततो वैषयिकं सुखम् । स्वात्मा न वञ्चनीयोऽयं, स्वार्थभ्रंशो हि मूर्खता ॥ ३३३ ॥ धर्माधमौ च नाशङ्कयौ, विघ्नहेतू सुखेषु तत् । तावेव नैव विद्यते, यतः खैरविषाणवत् ॥ ३३४ ॥ स्नपनेनाङ्गरागेण, माल्यवस्त्रविभूषणैः । यदेकः पूज्यते ग्रावा, पुण्यं तेन व्यधायि किम् ? ॥३३५ ॥ अन्यस्य चोपरि ग्राव्ण, आसित्वा मृत्र्यते जनैः। क्रियते च पुरीषादि, पापं तेन व्यधायि किम् ? ॥३३६॥ उत्पद्यन्ते विपद्यन्ते, कर्मणा यदि जन्तवः । उत्पद्यन्ते विपद्यन्ते, बुहृदाः केन कर्मणा ? ॥३३७ ।।
अमावास्यारात्रिः। रिवोत्पन्नमि' आ॥ २ अनवसरे बज्रपाततुल्यम्। ३ हस्तमध्यभागः "कोणी" इति लोके । गर्दभशूङ्गवत् । ५ पापाणः ।
त्रिषष्टि,
३ Jan Education International
For Private & Personal use only
www.jainelibrary.org