SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ त्रिपष्टि शलाका पुरुषचरिते ॥ १२ ॥ Jain Education Internal यतिनेवाऽचरित्रेण, सैन्येनेवाऽपशस्त्रिणा । मुखेनेवाऽक्षिहीनेन, निर्धर्मेण नरेण किम् ? ॥ ३१० ॥ [ त्रिभिर्विशेषकम् ।] चक्रवर्त्त्यप्यधर्मः सन्, जन्म तल्लभते पुनः । कदन्नमपि सम्प्राप्तं, साम्राज्यं यत्र मन्यते ॥ ३११ ॥ महाकुलप्रसूतोऽपि धर्मोपार्जनवर्जितः । भवेद् भवान्तरे वेव, परोच्छिष्टान्न भोजनः ॥ ३१२ ॥ धर्महीनो द्विजन्माऽपि नित्यं पापानुबन्धकः । बिडाल इव दुर्वृत्तो, म्लेच्छयोनिषु जायते ।। ३१३ ।। बिडाल - व्याल - शार्दूल- श्येन - गृधादियोनिषु । भवन्ति भूयिष्ठभवा, भविनो धर्मवर्जिताः ॥ ३१४ ॥ धर्महीनाः कृमयः स्युरसकृच्छकृदादिषु । कुक्कुटादेर्लभन्ते च चञ्चचरणताडनम् ॥ ३१५ ॥ जायन्ते धर्मरहिता, नरा नरकभूमिषु । वैरादिव कदर्थ्यन्ते, परमाधार्मिकासुरैः ॥ ३१६ ॥ अनन्तव्यसनावेगज्वलनान्तरवर्त्तिनः । त्रपुः पिण्डानिव हहा !, घिगधर्मान् शरीरिणः ।। ३१७ ॥ धर्मादामोति शर्माणि, परमादिव बान्धवात् । तरण्डेनेव तरति, धर्मेण विपदापगाः ।। ३१८ ॥ पुंसां शिरोमणीयन्ते धर्मार्जनपरा नराः । आश्रीयन्ते च सम्पद्भिर्लताभिरिव पादपाः ।। ३१९ ॥ आधि-व्याधि-विरोधादि, सर्व बाधानिबन्धनम् । विध्यायत्याशु धर्मेण, जलेनेव हुताशनः ॥ ३२० ॥ जन्मान्तरेऽप्यर्पणाय, सर्वकल्याणसम्पदाम् । प्रतिभूर्धर्म एवायमलङ्कमणविक्रमः ॥ ३२९ ॥ किमन्यदुच्यते स्वामिन्! ?, धर्मेणैव बलीयसा । सौधाग्रमिव निश्रेण्या, लोकाग्रं यान्ति जन्तवः || ३२२ ॥ विद्याधरनरेन्द्रत्वं धर्मेणैव त्वमासदः । अतोऽप्युत्कृष्टलाभाय, धर्ममेव समाश्रय ॥ ३२३ ॥ १ कुत्सितमन्नम् । * यत्र राज्याय मन्यते संता ॥ २ पौनःपुन्येन विष्ठादिषु । ३ सीसकपिण्डान् । ४ शाम्यति । ५ समर्थपराक्रमः । For Private & Personal Use Only प्रथमं पर्व प्रथमः सर्गः ऋषभ चरितम् । पूर्वभवचरिते चतुर्थो महा बलभवः । ।। १२ ।। www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy