SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ अन्तको जन्तुभिः किं वा?, किमेधोभिक्षुताशनः । सुखैषयिकैरात्मा, किं तथैष कदाचन ॥२९६॥ कूलच्छाया दुर्जनाच, विषं च विषयास्तथा । दन्दशूकाश्च जायन्ते, सेव्यमाना विपत्तये ॥ २९७ ॥ आसेव्यमानस्तत्कालसुखोऽन्तविरसः स्मरः । कण्डूय्यमाना पामेव, निकामं च प्रवर्द्धते ॥ २९८॥ कामोऽयं नरकदृतः, कामो व्यसनसागरः । कामो विपल्लताकन्दः, कामः पापद्रुसारणिः॥ २९९ ॥ मदनेन मदेनेव, जनः परवशीकृतः । सदाचारपथभ्रष्टः, पतत्येव भावटे ॥ ३० ॥ अर्थ धर्म च मोक्षं च, वेश्मेव गृहमेधिनः । आसादितप्रवेशोऽयं, खनत्यारिव स्मरः ॥ ३०१॥ दर्शनेन स्पर्शनेनोपभोगेन च निर्भरम् । व्यामोहायैव जायन्ते, विषवल्य इव स्त्रियः ॥ ३०२॥ निकाममेव कामिन्यः, कामलुब्धकवागुराः । हरिणानामिव नृणां, जायन्तेऽनर्थहेतवे ॥३०३ ॥ ये नर्मसुहृदः खादाचामैकसुहृदो हि ते । स्वामिनश्चिन्तयन्त्येते, परलोकहितं न यत् ॥ ३०४ ॥ स्त्रीकथाभिगीतनृत्तैर्नर्मोक्त्या मोहयन्त्यमी । पिङ्गाः स्वखामिनमहो!, नीचाः खार्थेकतत्पराः ॥३०५॥ कुसंसर्गात् कुलीनानां, भवेदभ्युदयः कुतः ? । कदली नन्दति कियद्?, बदरीतरुसन्निधौ ॥३०६॥ तत्प्रसीद कुलस्वामिन् !, स्वयं विज्ञोऽसि मा मुहः। विहाय व्यसनासक्तिं, मनो धर्मे निधीयताम् ॥३०७॥ निश्छायेन द्रुमेणेव, सरसेवाऽपवारिणा । निर्गन्धेनेव पुष्पेण, विदन्तेनेव दन्तिना ॥ ३०८ ॥ रूपेणेवाऽलवणिम्ना, राज्येनेवाऽपमत्रिणा । अदेवेनेव चैत्येन, रजन्येवेन्दुहीनया ॥३०९ ॥ , यमराजः । २ का?ः । ३ खसः । ४ भवकूपे । ५ मूषकः । ६ खानपानकमित्राणि । ७ विटाः । Jain Education Inter For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy