________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
प्रथमः
सर्गः
ऋषभचरितम् ।
STAGRAAKASEAN
अभृवंस्तत्पुरो नित्यसङ्गीतप्रतिशब्दितैः । सङ्गीतकानुवादिन्य, इव वैताढ्यकन्दराः ॥२८२ ॥ अग्रतः पार्श्वयोः पश्चान्नारीभिः परिवेष्टितः। स चकासामास रसः, शृङ्गार इव मूर्तिमान् ॥ २८३ ॥ खच्छन्दं तस्य विषयक्रीडाव्यग्रस्य सर्वदा । समरात्रिन्दिवः कालो, बभूव विषुवन्निभः ।। २८४ ॥ । अनेकामात्यसामन्तैर्मणिस्तम्भरिवाऽपरैः । परिष्कृतां निजास्थानी, सोधितस्थावथैकदा ॥ २८५॥ तं नत्वोपाविशन् सर्वे, यथास्थानं सभासदः । ते तदेकाग्रनयना, योगिलीलामधारयन् ॥ २८६ ॥ ते स्वयम्बुद्ध-सम्भिन्नमती शतमतिस्तथा । महामतिश्च तत्रासाश्चक्रिरे मत्रिणोऽपि हि ॥ २८७॥ स्वामिभक्तिसुधासिन्धुर्मनीषारत्नरोहणः । सम्यग्दृष्टिः स्वयम्बुद्ध, इति तत्र व्यचिन्तयत् ॥ २८८ ॥ 18 • अस्माकं पश्यतामेष, दुर्वाजिभिरिवेन्द्रियैः । हियते विषयासक्तः, स्वामी धिग्न उपेक्षकान् ॥ २८९ ॥ -ईग्विनोदव्यग्रस्य, जन्माऽस्मत्स्वामिनो मुधा । यातीति ताम्यति मनो, मीनः स्तोक इवाम्भसि ॥२९॥
अस्माभिर्मत्रिभिरसौ, न चेदुच्चैःपदं श्रयेत् । तदस्माकं भवेन्नर्ममत्रिणां च किमन्तरम् ? ॥ २९१ ॥. तद्विज्ञपय्य नेतव्योऽस्माभिः स्वामी हिते पथि । नीयन्ते यत्र तत्रैते, यान्ति सारणिवन्नृपाः ॥२९२॥ यद्यप्यपवदिष्यन्ते, स्वामिव्यसनजीविनः। वाच्यं तथाऽपि नोप्यन्ते, यवा मृगभयेन किम् ? ॥२९३ ॥ विमृश्येति स्वयम्बुद्धो, धौरेयो बुद्धिशालिनाम् । इति विज्ञपयामास, राजानं रचिताञ्जलिः ॥ २९४ ॥
आसंसारं सरिनाथः, किं तृप्यति सरिजलैः । सरित्प॑तिपयोभिर्वा, किमेष वडवानलः? ॥२९५॥ * 'पुरे नि सं १, आ ॥ १ सङ्गीतस्य अनुकरणं कुर्वन्त्यः । २ समरात्रिदिनात्मकः कालो विषुवत् । ३ सभाम् । ४ बुद्धिरतस्य रोहणाचलरूपः। ५ समुदः। ६ समुद्रः।
पूर्वभवचरिते चतुर्थो महाबलभवः।
SSROSESSISSA
Jain Education International
For Private & Personal use only
www.jainelibrary.org.