SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥१०॥ प्रथमः सर्गः ऋषभचरितम् सत्कृतोऽनेकशोऽप्येष, सत्क्रियेत यदापि न । तदापि विक्रियां याति, कायः खलु खलोपमः ॥२५२ ॥ अहो ! बहिनिपतितैर्विष्ठा-मूत्र-कफादिभिः । हणीयन्ते प्राणिनोऽमी, कायस्याऽन्तःस्थितैन किम् ॥२५३॥ रोगाः समुद्भवन्त्यस्मिन्नत्यन्तातङ्कदायिनः । दन्देशूका इव क्रूरा, जरविटपिकोटरे ॥ २५४ ॥ निसर्गाद् गत्वरश्चाऽयं, कायोऽब्द इव शारदः । दृष्टनष्टा च तत्रेयं, यौवनश्रीस्तडिनिभा ॥२५५॥ आयुः पताकाचपलं, तरङ्गतरलाः श्रियः । भोगिभोगनिभा भोगाः, सङ्गमाः स्वमसन्निभाः ॥ २५६ ॥ काम-क्रोधादिभिस्तापैस्ताप्यमानो दिवानिशम् । आत्मा शरीरान्तःस्थोऽसौ, पच्यते पुटपाकवत् ॥२५७॥ विषयेष्वतिदुःखेषु, सुखमानी मनागपि । नाऽहो ! विरज्यति जनोऽशुचिकीट इवाऽशुचौ ॥ २५८॥ दुरन्तविषयास्वादपराधीनमना जनः । अन्धोऽन्धुमिव पादारस्थितं मृत्युं न पश्यति ।। २५९ ॥ आपातमात्रमधुरैर्विषयैर्विषसन्निभैः । आत्मा मूञ्छित एवाऽऽस्ते, स्वहिताय न चेतति ॥ २६० ॥ तुल्ये चतुर्णा पौमर्थे, पापयोरर्थकामयोः । आत्मा प्रवर्त्तते हन्त !, न पुनर्धर्ममोक्षयोः ॥ २६१ ॥ अस्मिन्नपारे संसारपारावारे शरीरिणाम् । महारत्नमिवाऽनयं, मानुष्यमतिदुर्लभम् ॥ २६२ ॥ मानुष्यकेपि सम्प्राप्ते, प्राप्यन्ते पुण्ययोगतः । देवता भगवानर्हन् , गुरवश्च सुसाधवः ॥ २६३ ॥ मानुष्यकस्य यद्यस्य, वयं नादबहे फलम् । मुषिताः स्म तदधुना, चौरैर्वसति पत्तने ॥२६४ ॥ तदद्य कवचहरे, कुमारेऽस्मिन् महाबले । राज्यभारं समारोप्य, कुर्महे स्वसमीहितम् ॥ २६५ ॥ विमृश्यैवं शतबलः, समाहूय महाबलम् । विनीतं बोधयामास, राज्यग्रहणहेतवे ॥ २६६ ॥ १ सः । * निसर्गग सं : आ॥२ सपं फगातुल्याः । ३ कूपम् । ४ पुरुषार्थत्वे । । संसारे पा सं २॥ ६°बलस्तदाह सं॥ | पूर्वभवचरिते चतुर्थो महाबलभवः। Jain Education Inter For Private Person Use Only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy