________________
तृतीयो
देवभवः।
दिवीव तत्र कल्पद्रुसम्पन्नसकलेप्सितः । धनजीवो युग्मधर्माऽन्वभूद् वैषयिकं सुखम् ॥ २३७ ॥ मिथुनायुः पालयित्वा, धनजीवस्ततश्च सः । प्राग्जन्मदानफलतः, सौधर्मे त्रिदशोऽभवत् ।। २३८ ॥
च्युत्वा सौधर्मकल्पाच, विदेहेष्वपरेष्वथ । विजये गन्धिलावत्यां, वैताठ्यपृथिवीधरे ॥२३९॥ गन्धाराख्ये जनपदे, पुरे गन्धसमृद्धके । राज्ञः शतबलाख्यस्य, विद्याधरशिरोमणेः॥२४॥ भार्यायां चन्द्रकान्तायां, पुत्रत्वेनोदपादि सः । नाम्ना महाबल इति, बलेनाऽतिमहाबलः ॥ २४१॥ रक्ष्यमाणः स आयुक्तैर्लाल्यमानस्तथा तथा । वृद्धिमासादयामास, शाखीव क्रमयोगतः ॥ २४२ ॥ कलानिधिरिवाऽशेषकलापूर्णः शनैः शनैः । स बभूव महाभागो, जनानां नयनोत्सवः ॥ २४३ ॥ स कन्यां विनयवती, मूर्त्ता तु विनयश्रियम् । समय समयाभिज्ञः, पित्रादेशादुपायत ॥ २४४॥ निशातमस्त्रं कामस्य, कामिनीजनकार्मणम् । रतिलीलावनं सोऽथ, यौवनं प्रत्यपद्यत ॥ २४५ ॥ क्रेमौ समतलौ तस्य, क्रमात् कूर्मवदुन्नतौ । सिंहमध्याधरीकारधुरीणं मध्यमप्यभूत् ॥ २४६ ॥ उरःस्थलं चाऽकलयत् , स्वर्णशैलशिलातुलाम् । उडुरौ दधतुः स्कन्धौ, ककुभत्ककुदश्रियम् ॥ २४७॥ भुजौ भुजङ्गमाधीशभोगशोभां च बैंभ्रतुः । अर्द्धाभ्युदितराकेन्दुलीलामलिङमाददे ॥ २४८॥ रदैनखैर्मणिनिभैर्वपुषा कनकत्विषा । सकलां कलयामास, मेरुलक्ष्मी स्थिराकृतिः ॥ २४९॥ ___ अपरेछुः शतबलो, विद्याधरपतिः सुधीः । महासत्त्वस्तत्त्वविज्ञश्चिन्तयामासिवानिदम् ॥ २५० ॥ विधाय सहजाऽशौचमुपस्कारैर्नवं नवम् । गोपनीयमिदं हन्त !, कियत्कालं कलेवरम् ? ॥२५१ ॥ 1 देवः । २ रक्षकैः । ३ वृक्ष इव । ४ तीक्ष्णम् । ५ चरणौ । * बिभ्रतुः सं १, आ॥ ६ ललाटम् । ७ संस्कारैः ।
हजाऽशौचमुपस्कारावरपतिः सुधीः । महाल, मेरुलक्ष्मी स्थिराकानी
Jan Education in
For Private & Personal use only
www.jainelibrary.org.