________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ ८ ॥
Jain Education Inte
महात्मनां सानुबन्धक्रोधोदयविवर्जिनाम् । चारित्रमोह्घातेन, जायते गृहमेधिनाम् ॥ १९४ ॥
[ त्रिभिर्विशेषकम् । ] स्थूलानामितरेषां च, हिंसादीनां विवर्जनम् । 'सिद्धिसौधैकसरणिः, सा सर्वविरतिर्मता ॥ १९५ ॥ प्रकृत्याऽल्पकपायाणां भवसौख्यविरागिणाम् । विनयादिगुणाऽक्तानां सा मुनीनां महात्मनाम् ॥ १९६ ॥ यत् तापयति कर्माणि, तत् तपः परिकीर्त्तितम् । तद् बाह्यमनशनादि, प्रायश्चित्तादि चाऽऽन्तरम् ॥ १९७ ॥ अनशन मौनोदर्य, वृत्तेः संक्षेपणं तथा । रसत्यागस्तनुक्लेशो, लीनतेति बहिस्तपः ।। १९८ ।। प्रायश्चित्तं वैयावृत्यं, स्वाध्यायो विनयोऽपि च । व्युत्सर्गेऽथ शुभध्यानं, पोढेत्याभ्यन्तरं तपः ॥ १९९ ॥ रत्नत्रयधरेष्वेका, भक्तिस्तत्कार्यकर्म च । शुभैकचिन्ता संसारजुगुप्सा भावना भवेत् ॥ २०० ॥ चतुर्धा तदयं धर्मो, निःसीमफलसाधनम् । साधनीयः सावधानैर्भवभ्रमण भीरुभिः ॥ २०१ ॥
rasta मया खामिन्!, धर्मोऽयं शुश्रुवे चिरात् । एतावन्ति दिनान्येष, वञ्चितोऽस्मि स्वकर्मभिः ॥ २०२ ॥ वन्दित्त्वा गुरुपादाब्जद्वन्द्वं शेषमुनीनपि । धन्यंमन्यो निजावासं, सार्थवाहस्ततो ययौ ॥ २०३ ॥ परमानन्दनिर्मग्नो, धर्मदेशनया तया । धनस्तां क्षपयामास, क्षणदां क्षणमात्रवत् ॥ २०४ ॥ सुप्तोत्थितस्य तस्याऽथ प्रातर्मङ्गलपाठकः । पपाठ शङ्खगम्भीरमधुरध्वनिवन्धुरः ॥ २०५ ॥
धनान्धकारमलिना, पद्मिनीलक्ष्मितस्करी । व्यवसायहरा नॄणां ययौ प्रावृडिव क्षपा ॥ २०६ ॥ तेजोऽभिमुखचण्डांशुर्व्यवसायसुहृन्नृणाम् । शरत्काल इव प्रातःकालोऽयं जृम्भतेऽधुना ॥ २०७ ॥ *मोहासं ॥ १ सिद्धिप्रासादैकसोपानमार्गः । २ कायोत्सर्गः । ३ रात्रिम् ।
For Private & Personal Use Only
प्रथमं पर्व
प्रथमः
सर्गः
ऋषभ
चरितम् ।
पूर्वभवचरिते प्रथमो धनसा र्थवाहभवः ।
॥ ८ ॥
www.jainelibrary.org.