________________
Jain Education Internationa
रत्नत्रयधरो धीरः, समकाञ्चनलेष्टुकः । शुभध्यानद्वयस्थास्नुर्जिताः कुक्षिशम्बलः ॥ १८० ॥ निरन्तरं यथाशक्ति, नानाविधतपः परः । संयमं सप्तदशधा, धारयन्नविखण्डितम् ॥ १८१ ॥ अष्टादशप्रकारं च, ब्रह्मचर्यं समाचरन् । यत्रेदृग् ग्राहको दानं तत् स्याद् ग्राहकशुद्धिमत् ॥ १८२ ॥ देयशुद्धं द्विचत्वारिंशदोषरहितं भवेत् । पाना-शन खाद्य-स्वाद्य - वस्त्र संस्तारकादिकम् ॥ १८३ ॥ कालशुद्धं तु यत् किञ्चित् काले पात्राय दीयते । भावशुद्धं त्वनाशंसं, श्रद्धया यत् प्रदीयते ॥ १८४ ॥ न देहेन विना धर्मो न देहोऽनादिकं विना । धर्मोपग्रहदानं तद्, विदधीत निरन्तरम् ॥ १८५ ॥ पात्रेभ्योऽशनपानादिधर्मोपग्रहदानतः । करोति तीर्थाव्युच्छित्तिं प्राप्नोति च परं पदम् ।। १८६ ॥
शीलं सावद्ययोगानां प्रत्याख्यानं निगद्यते । द्विधा तद्देशविरति सर्वविरतिभेदतः ॥ १८७ ॥ देशतो विरतिः पञ्चाणुव्रतानि गुणास्त्रयः । शिक्षाव्रतानि चत्वारि, चेति द्वादशधा मताः ॥ १८८ ॥ तत्र स्थूला हिंसा-सत्या - स्तेय ब्रह्माऽपरिग्रहाः । अणुव्रतानि पञ्चेति, कीर्त्तितानि जिनेश्वरैः ॥ १८९ ॥ अथ दिग्विरतिर्भोगोपभोगविरतिस्तथा । अनर्थदण्डविरतिश्चैवं गुणत्रतत्रयी ॥ १९० ॥ सामायिकं च देशावकाशिकं पौषधस्तथा । अतिथीनां संविभागः, शिक्षाव्रतचतुष्टयम् ॥ १९९ ॥ तदेषा देशविरतिः, शुश्रूषादिगुणस्पृशाम् । यतिधर्मानुरक्तानां, धर्मपथ्यदनार्थिनाम् ॥। १९२ ।। शँम-संवेग-निर्वेदाऽनुकम्पा -ऽऽस्तिक्यलक्षणम् । सम्यक्त्वं प्रतिपन्नानां मिथ्यात्वविनिवर्त्तिनाम् ॥ १९३ ।।
१ जितेन्द्रियः । २ उदरमात्रपाथेयः । * तस्य ग्रासं ॥ t शुद्धि से १ ॥ शुद्धिं सं १ ॥ ३ वाञ्छारहितम् । ४ कुर्यात् । ५ तीर्थस्य अविच्छेदम् । ६ पथ्यदनं शम्बलम् ।
For Private & Personal Use Only
www.jainelibrary.org