________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
प्रथमः
सर्गः ऋषभ
चरितम् ।
SUBSCRSSCRICA
स्पर्शनं रसनं घ्राणं, चक्षुः श्रोत्रमितीन्द्रियम् । तस्य स्पर्शे रसो गन्धो, रूपं शब्दश्च गोचरः ॥ १६५॥ द्वीन्द्रियाः कृमयः शङ्खाः, गण्डूपदा जलौकसः । कपर्दकाः शुक्तयश्च, विविधाकृतयो मताः॥१६६॥ यूका मत्कुण-मैर्कोट-लिक्षाद्यास्त्रीन्द्रिया मताः । पतङ्ग-मक्षिका-भृङ्ग-दंशाद्याश्चतुरिन्द्रियाः॥१६७॥ तिर्यग्योनिभवाः शेषा, जल-स्थल-खचारिणः । नारका मानवा देवाः, सर्वे पञ्चेन्द्रिया मताः ॥१६८॥ तत्पर्यायक्षयाद् दुःखोत्पादात् सङ्क्लेशतस्विधा । वधस्य वर्जनं तेष्वभयदानं तदुच्यते ॥ १६९॥ ददात्यभयदानं यो, दत्तेऽर्थान् सोखिलानपि । जीविते सति जायेत, यत् पुमर्थचतुष्टयी ॥ १७०॥ जीवितादपरं प्रेयो, जन्तोायेत जातुचित् । न राज्यं न च साम्राज्यं, देवराज्यं न चोच्चकैः॥ १७१॥ इतोऽशुचिस्थस्य कमेरितः खर्गसदो हरेः । प्राणापहारप्रभवं, द्वयोरपि समं भयम् ।। १७२ ॥ समग्रजगदिष्टायाऽभयदानाय सर्वथा । सर्वदाऽप्यप्रमत्तः सन् , प्रवर्त्तत ततः सुधीः ॥ १७३ ॥ भवेदभयदानेन, जनो जन्मान्तरेषु हि । कान्तो दीर्घायुरारोग्य-रूप-लावण्यशक्तिमान् ॥ १७४ ॥
धर्मोपग्रहदानं तु, जायते तत्र पश्चधा । दायक-ग्राहक-देय-काल-भावविशुद्धितः॥ १७५ ॥ तत्र दायकशुद्धं तन्याय्यार्थी ज्ञानवान् सुधीः । निराशंसोऽननुतापी, दायकः प्रददाति यत् ॥ १७६ ॥ इदं चित्तमिदं वित्तमिदं पात्रं निरन्तरम् । सञ्जातं यस्य मे सोऽहं, कृतार्थोऽस्मीति दायकः॥ १७७ ॥ सावद्ययोगविरतो, गौरवत्रयवर्जितः । त्रिगुप्तः पञ्चसमितो, रागद्वेषविनाकृतः॥ १७८ ॥ निर्ममो नगरवसत्यङ्गोपकरणादिषु । तथाऽष्टादशशीलाङ्गसहस्रधरणोद्धरः ॥ १७९ ॥ * °मत्कोट-लि सं २, खं ॥ १ धर्मार्थकाममोक्षरूपा। २ नीतिसम्पादितार्थः । ३ निरीहः । ४ पश्चात्तापविरहितः।
पूर्वभवचरिते प्रथमोधनसार्थवाहभवः।
॥७॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org.