________________
प्रैवेयकाऽनुत्तरेषु, धर्माद् यात्यहमिन्द्रताम् । धर्मादार्हन्त्यमामोति, किं किं धर्मान्न सिध्यति ? ॥१५१॥ दुर्गतिप्रपतजन्तुधारणाद् धर्म उच्यते । दान-शील-तपो-भावभेदात् स तु चतुर्विधः ॥१५२॥ ___ तत्र तावद् दानधर्मविप्रकारः प्रकीर्तितः । ज्ञानदाना-ऽभयदान-धर्मोपग्रहदानतः॥१५३ ॥ दानं धर्मानभिजेभ्यो, वाचनादेशनादिना । ज्ञानसाधनदानं च, ज्ञानदानमितीरितम् ॥ १५४ ॥ ज्ञानदानेन जानाति, जन्तुः स्वस्य हिताहितम् । वेत्ति जीवादितत्वानि, विरतिं च समश्नुते ॥ १५५॥ ज्ञानदानादवानोति, केवलज्ञानमुज्ज्वलम् । अनुगृह्याखिलं लोकं, लोकाग्रमधिगच्छति ॥ १५६ ॥ ___ भवत्यभयदानं तु, जीवानां वधवर्जनम् । मनो-चाकायैः करण-कारणा-ऽनुमतैरपि ॥ १५७ ।। तत्र जीवा द्विधा ज्ञेयाः, स्थावर-त्रसभेदतः । द्वितयेऽपि द्विधा पर्याप्ताऽपर्याप्तविशेषतः ॥१५८॥ पर्याप्तयस्तु पडिमाः, पर्याप्तत्वनिबन्धनम् । आहारो वेपुरक्षाणि', प्राणो भाषा मनोऽपि च ॥ १५९ ॥ स्युरेकाक्ष-विकलाक्ष-पश्चाक्षाणां शरीरिणाम् । चतस्रः पञ्च षट् वापि, पर्याप्तयो यथाक्रमम् ॥ १६० ।। एकाक्षाः स्थावरा भूम्योजोवायुमहीरुहः । तेषां तु पूर्व चत्वारः, स्युः सूक्ष्मा बादरा अपि ॥ १६१॥ प्रत्येकाः साधारणाश्च, द्विप्रकारा महीरुहः । साधारणा अपि द्वेधा, सूक्ष्म-बादरभेदतः ॥ १६२ ॥ वसा द्वि-त्रि-चतुः-पञ्चेन्द्रियत्वेन चतुर्विधाः । तत्र पञ्चेन्द्रिया द्वेधा, संजिनोऽसंज्ञिनोऽपि च ।। १६३ ।। शिक्षोपदेशाऽऽलापान ये, जानते ते तु संज्ञिनः । सम्प्रवृत्तमनःप्राणास्तेभ्योऽन्ये स्युरसंज्ञिनः ॥ १६४ ॥
तीर्थङ्करत्वम् । 'दितः सं २,३॥1'जन्तुस्तस्य सं २॥ २ मोक्षम् । ३ कृतकारितानुमोदितः। शरीरम् । 3.५ इन्द्रियाणि । ६ विकलाक्षशब्देन द्वीन्द्रियादयो विकलेन्द्रिया प्रायाः। ७ वनस्पतिकायाः।
विषधि,२
Jain Education International
For Private & Personal use only
www.jainelibrary.org