SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व प्रथमः - सर्गः ऋषभचरितम् । अस्थाऽनुपदमेवाऽथ, साधुद्वितयमागमत् । तदहं चाऽन्नपानादि, दैवादासीन्न किञ्चन ॥ १३७ ॥ इतस्ततोऽन्वेषयंश्च, सार्थवाहः स्वयं ततः । ईक्षाश्चक्रे घृतं स्त्यानं, निजाशयमिवाऽमलम् ॥१३८ ॥ इदं वः कल्पते किश्चिदिति सार्थपतीरिते । इच्छामीति वदन् साधुः, पैतद्हमधारयत् ॥ १३९ ॥ धन्योऽहं कृतकृत्योऽहं, पुण्योऽहमिति चिन्तयन् । रोमाञ्चितवपुः सपिः, साधवे स स्वयं ददौ ॥१४० ॥ .आनन्दाश्रुजलैः पुण्यकन्दं कन्दलयन्निव । घृतदानावसानेऽथ, धनोऽवन्दत तौ मुनी ॥१४१॥ सर्वकल्याणसंसिद्धौ, सिद्धमत्रसमं ततः । वितीर्य धर्मलाभं तो, जग्मतुर्निजमाश्रयम् ॥ १४२ ॥ तदानीं सार्थवाहेन, दानस्साऽस्य प्रभावतः । लेभे मोक्षतरोबीजं, बोधिबीजं सुदुर्लभम् ॥ १४३ ॥ • रजन्यां पुनरप्येषां, मुनीनामाश्रयं ययौ। स प्रविश्याऽनुजानीतेति वदन् प्राणमद् गुरून् ॥ १४४ ॥ धर्मघोषसूरयोऽपि, मेघनि?षया गिरा । श्रुतकेवलिदेशीयां, दिदिशुर्देशनामिमाम् ॥ १४५ ॥ धर्मो मङ्गलमुत्कृष्टं, धर्मः स्वर्गाऽपवर्गदः । धर्मः संसारकान्तारोल्लङ्घने मार्गदेशकः ॥ १४६ ॥ धर्मों मातेव पुष्णाति, धर्मः पाति पितेव च । धर्मः सखेव प्रीणाति, धर्मः स्निह्यति बन्धुवत् ॥ १४७॥ | धर्मः सङ्क्रमयत्युच्चैर्गुणान् गुरुरिवोज्वलान् । धर्मः प्रकृष्टां स्वामीव, प्रतिष्ठां च प्रयच्छति ॥१४८ ॥ धर्मः शर्ममहाहय, धर्मो वारिसङ्कटे । धर्मो जाड्यच्छिदाधर्मो, धर्मो मर्माविदंहसाम् ॥ १४९ ॥ धर्माजन्तुर्भवेद् भूपो, धर्माद् रामोऽर्धचत्र्यपि । धर्माचक्रधरो धर्माद, देवो धर्माच्च वासवः ॥१५॥ १ पात्रम् । २ घृतम् । ३ पुण्याङ्कुरम् । ४ श्रुतकेवलिसमानाम् । ५ मार्गदर्शकः । * प्रतिष्ठां सं १ ॥ ६ शैत्यविच्छेदे धर्मरूपः । ७ बलदेवः । ८ वासुदेवः । ९ चक्रवर्ती। १० इन्द्रः। | पूर्वभवचरिते प्रथमोधनसार्थवाहभवः। Jain Education Inte For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy