________________
श्रुतमुद्दिशतः काश्चित् , कांश्चित् तदनुजानतः । तत्त्वानि वदतः कांश्चित् , तत्राऽद्राक्षीन्मुनीनपि ॥१२४॥
[त्रिभिर्विशेषकम् ।] सोऽवन्दताऽऽचार्यपादान् , साधूनपि यथाक्रमम् । तस्मै ते धर्मलाभं च, ददुः पापप्रणाशनम् ॥ १२५॥ आचार्यपादपद्मान्ते, राजहंस इवाऽथ सः । निषेद्याऽऽसादितानन्द, इति वक्तुं प्रचक्रमे ॥ १२६ ॥ तदाऽऽकारयता युष्मान् , भगवन्नात्मना सह । मुधैव सम्भ्रमोऽदर्शि, शरद्गर्जितवन्मया ॥ १२७ ॥ आरभ्य तद्दिनाद् यूयं, न दृष्टा न च वन्दिताः । न चाऽन्नपानवस्त्राद्यैः, कदाचिदपि सत्कृताः॥१२८॥ जाग्रत्सँषुप्तावस्थेन, मया मूढेन किं कृतम् । यद् यूयमवजज्ञिध्वे, ध्वस्तस्ववचसा चिरम् ॥१२९ ॥ भगवन्तः! सहध्वं तत् , प्रमादाचरणं मम । सर्वसहा महान्तो हि, सदा सर्वसहोपमाः ॥ १३०॥ सूरयोऽप्यचिरेऽस्माकं, त्वया किं किं न सत्कृतम् । दुःश्वापदेभ्यो दस्युभ्यस्त्रायमाणेन वर्त्मनि ॥१३॥ तवैव सार्थिका यच्छन्त्यन्नपानादि चोचितम् । तन्न सीदति नः किञ्चित् , मा विपीद महामते ! ॥१३२॥द धनोऽप्यूचे गुणानेव, सन्तः पश्यन्ति सर्वतः । ततो मम सदोषस्थाऽप्याराध्यैरेवमुच्यते ॥ १३३ ॥ सर्वथा खप्रमादेन, लजितोऽसि प्रसीदत । साधुन् प्रेषयताऽऽहारं, प्रयच्छामीच्छया यथा ॥१३४ ॥ सूरिभाषे योगेन, वर्तमानेन वेत्सिनु । अकृताऽकारिताऽचित्तमन्नाद्युपकरोति नः ॥ १३५॥ तदेव दास्ये साधूनां, यदेवोपकरिष्यते । इत्युदित्वा च नत्वा च, निजावासं ययौ धनः॥ १३६ ॥
तदनुज्ञाकारिणः । २ उपविश्य । ३ आमन्त्रणं कुर्वता । ४ जाग्रताऽपि सुषुप्तावस्थागतेन । ५ पृथ्वी तदुपमा । ६ दुष्टहिंत्रताप्राणिभ्यः । ७ चौरेभ्यः । ८ पूज्यैः । ९ अकृतं अकारितं अचित्तं चेति एकवद्भावी द्वन्द्वः ।
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org