SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ त्रिपष्टिशलाकापुरुषचरिते प्रथमं पर्व प्रथमः सर्गः ऋषभचरितम् । आ ज्ञातं सन्ति मे धर्मघोषाचार्याः सहागताः । अकृताऽकारितप्रासुभिक्षामात्रोपजीविनः ॥१११ ॥ कन्दमूलफलादीनि, स्पृशन्त्यपि न ये क्वचित् । अधुना दुःस्थिते सार्थे, वर्तन्ते हन्त ! ते कथम् ॥११२॥ मार्गकृत्यमुरीकृत्य, पथि यानहमानयम् । तानद्यैव समस्मार्ष, किमकार्षमचेतनः ? ॥११३॥ वामात्रेणापि नो येषामद्य यावत् कृतौचिती । स्वमुखं दर्शयिष्यामि, तेषामद्य कथं न्वहम् ?॥११४॥ तथाऽप्यद्यापि तान् दृष्ट्वा, निजांहः क्षालयाम्यहम् । सर्वत्रापि निरीहाणां, कार्य तेषां तु किं मया ॥११५॥ इति चिन्तयतस्तस्योत्सुकस्य मुनिदर्शने । तुर्यो यामस्त्रियामायास्त्रियामेवाऽपराऽभवत् ॥ ११६॥ विभातायां विभावर्या, शुचिवस्त्रविभूषणः । सूरीणामाश्रयमगात् , सप्रधानजनो धनः ॥ ११७ ॥, पलाशच्छदनच्छन्नं, सच्छिद्रतृणभित्तिकम् । स्थलस्थण्डिलसंस्थानं, तेषां सोऽविशदाश्रयम् ॥ ११८॥ मानमिव पापाब्धेः, पन्थानमिव निवृतेः । औस्थानमिव धर्मस्य, संस्थानमिव तेजसाम् ॥ ११९ ॥ कषायगुल्मनीहारं, हारं कल्याणसम्पदः । सङ्घस्याऽद्वैतमाङल्पं, कल्पद्रु शिवकाविणाम् ॥ १२० ॥ पिण्डीभूतं तप इव, मूर्तिमन्तमिवाऽऽगमम् । तीर्थङ्करमिवाऽद्राक्षीद्, धर्मघोषमुनि धनः॥१२१ ॥ [त्रिभिर्विशेषकम् ।] ध्यानाधीनात्मनः कांश्चित्, कांश्चिन्मौनावलम्बिनः। कायोत्सर्गस्थितान् कांश्चित् ,पठतः कांश्चिदागमम्॥१२२॥ वाचनां ददतः कांश्चित् ,कांश्चिद् भूमिं प्रमार्जतः । वन्दमानान् गुरुन् कांश्चित् , कांश्चिद्धर्मकथाजुषः॥१२३॥ पूर्वभवचरिते प्रथमो धनसार्थवाहभवः उचिताचरणम् । २ स्वपापम् । ३ रात्र्याः । ४ मथनदण्डम् । ५ सभास्थानम् । ६ हिमम् । ७ भूषणरूपम् । Jain Education Internationa l For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy