________________
धर्तुं प्रतिपथं पान्थान् , दुदैवेन प्रसारिताः । प्रवाहच्छमना दीर्घाः, स्वबाहुपरिवा इव ॥ ९७ ॥ अमजन्नभितः पङ्कविकटे शकटाः पथि । चिरं कृतविमर्दोत्थरोषाद् अस्ता इवेलेया ॥९८॥ अवरुह्याऽऽकृष्यमाणा, औष्ट्रिकै तरज्जुभिः । पथि क्रमेलकाः पेतुर्धश्यत्पादाः पदे पदे ॥ ९९ ।। दुर्गत्वं वर्त्मनां प्रेक्ष्य, सार्थवाहस्ततो धनः । तस्यामेव महाटव्यां, दत्त्वा वासानवास्थित ॥ १०॥ अतिवाहयितुं वर्षाश्चक्रे तत्रोटजान् जनः । न हि सीदन्ति कुर्वन्तो, देशकालोचितां क्रियाम् ॥१०१॥ दर्शिते माणिभद्रेण, निर्जन्तुजगतीतले । उटजोपाश्रयेऽवात्सुः, सूरयोऽपि ससाधवः ॥ १०२॥ भूयस्त्वात् सार्थलोकस्य, दीर्घत्वात् प्रावृषोऽपि च । अत्रुट्यत् तत्र सर्वेषां, पाथेययवसादिकम् ॥ १०३ ॥ ततश्चेतस्ततश्चेलुः, कुचेलास्तापसा इव । खादितुं कन्दमूलादि, क्षुधार्ताः सार्थवासिनः॥ १०४॥ ___ अथ तत् सार्थनाथस्य, सार्थदौःस्थ्यमशेषतः । विज्ञप्तं माणिभद्रेण, तन्मित्रेण निशामुखे ॥ १०५ ॥ सार्थवाहः सार्थदुःखचिन्तासन्ताननिश्चलः । तस्थौ निवातनिष्कम्प, इव पायोनिधिस्ततः ॥१०६॥ तस्य चिन्ताप्रपन्नस्य, निद्राऽभूत क्षणमात्रतः । अतिदुःखाऽतिसौख्ये हि, तस्याः प्रथमकारणम् ॥ १०७ ॥ यामिन्याश्चरमे यामे, मन्दुरायामपालकः । ततश्च कश्चिदप्येवमपाठीदशठाशयः॥ १०८॥ प्रत्याशं विस्फुरत्कीर्तिः, प्राप्तोऽपि विषमां दशाम् । स्वामी नः पालयत्यात्मप्रतिपन्नमसावहो! ॥१०९॥ तदाकर्ण्य धनो दध्यावुपालब्धोऽसि केनचित् । अस्तीह मामके साथै, को नामाऽत्यन्तदुःस्थितः ? ॥११॥
१ स्वबाहुरूपार्गला इव । २ भूम्या । ३ उष्ट्रारूढः। * तत्रैव च म सं १ ॥ । 'श्चक्रुस्तत्रोटजान् जनाः सं १, खं ॥ ४ समुद्रः । ५ वाजिशालाग्राहरिकः ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org