SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्रथम पर्व प्रथमः मर्गः ऋषभचरितम् । त्रिपष्टि जिह्वामकर्षन् महिषा, निःश्वासप्रेरितामिव । विविशुश्च नदीपङ्केष्ववधीरितकाहराः ॥ ८३ ॥ शलाका रथिकानवमत्यापि, प्राजनेषु पतत्स्वपि । उन्मार्गपादपानीयुरुक्षाणश्च क्षणे क्षणे ॥ ८४ ॥ शुरुषचरिते तप्तायःसूचीसदृशै, रोचिर्भिश्चण्डरोचिषः । व्यलीयन्त शरीराणि, विष्वग् मदनपिण्डवत् ॥ ८५ ॥ तप्तायःफालकरणिं, तरणिनितरां दधौ । पथि क्षिप्तकरीपाग्निवैषम्यं पांशवोऽवहन् ।। ८६ ॥ ॥४॥ प्रविश्य मार्गसरितः, परितः सार्थयोषितः । उन्मूल्य नलिनीनालान् , गलनालेषु चिक्षिपुः ॥ ८७ ॥ धर्माऽम्भाक्लिन्नवासोभिरशोभन्त भृशं पथि । जलार्दा इव विभ्रत्यः, सार्थपान्थपुरन्ध्रयः ॥ ८८ ॥ पलाशतालहिन्तालनलिनीकदलीदलैः । तालवृन्तीकृतैः पान्थाश्चिच्छिदुर्धर्मजं श्रमम् ।। ८९॥ ग्रीष्मस्येव स्थितिच्छेदं, गतिच्छेदं प्रवासिनाम् । विदधानः समागच्छन्मेपचिह्नमृतस्ततः ॥९॥ यातुधान इवाऽऽकाशे, दधानो धन्व वारिदः । कुर्वन् धाराशरासारं, सार्थेनोत्रासमैक्ष्यत ॥ ९१ ॥ अलातमिव तडितं, तडित्वान् भ्रमयन मुहुः । निर्भरं भापयामास, पथिकान् बालकानिव ॥ ९२ ॥ अभ्रंलिहैः पयःपूरैः, कूलिनीनां प्रसारिभिः । कूलानि पान्थहृदयानीच सद्यो विदद्रिरे ॥९३॥ सलिलैनींचमुच्चं च, सर्वमुर्त्या समीकृतम् । जडानामुदये हन्त, विवेकः कीदृशो भवेत् ॥ ९४ ॥ पयोभिः कण्टकैः पद्धैर्दुर्गमत्वेन वर्त्मनः । योजनानां शतमिव, क्रोशोऽपि समजायत ॥ ९५ ॥ अध्वन्यजन आजानुसंलग्ननवकर्दमः । आमुक्तमोचक इव, प्रचचाल शनैः शनैः ।। ९६ ॥ तिरस्कृतकशाविशेषाः। २ "परोणी" इति भाषायाम् । ३ सूर्यस्य । ४ सदशम्। ५ सूर्यः। * प्राविशन् मार्ग सं१,२. खं ॥ पाखियः। ७ राक्षसः। ८ प्रज्वलरकाष्ठम् । ९ मेघः। १० अन इलयारेक्यात् जलानामित्यपि वक्तव्यम् । | पूर्वभवचरिते प्रथमो धनसाथैवाहभवः। Jain Education Internation For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy