SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte यूनामन्तर्निविष्टानां तत्र क्रीडानिबन्धनम् । जङ्गमानीव वेश्मानि शकटानि चकासिरे ॥ ६९ ॥ महाकाया महास्कन्धा, महिषास्तोयवाहिनः । महीं प्राप्ता इवाऽम्भोदा, जनानां चिच्छिदुस्तुम् ॥ ७० ॥ तदा तद्भाण्डसम्भारभाराक्रान्ता समन्ततः । शकटश्रेणिचीत्कारै, ररासेव वसुन्धरा ॥ ७१ ॥ औक्षणौष्ट्रकेणाऽऽश्वेनोद्धूतः पांशुरानशे । तथा दिवं यथा विष्वक्, सूचीभेद्यं तमोऽभवत् ॥ ७२ ॥ उक्ष्णां घण्टाटणत्कारैर्बधिरीकृतदिङ्मुखैः । चमर्यस्तत्रसुर्दूरादुत्कर्णास्तैर्णकैः समम् ॥ ७३ ॥ महाभारं वहन्तोऽपि, क्रामन्तोऽपि क्रमेलकाः । वलितग्रीवमग्राणि, भूरुहां लिलिहुर्मुहुः ॥ ७४ ॥ • उत्कर्णसरलग्रीवा, दशन्तो दर्शनैर्मिथः । पृष्ठप्रतिष्ठकण्ठालाः प्रष्टा एवाऽभवन् खराः ।। ७५ ।। आरक्षकैः प्रतिदिशं, वेष्टितः शस्त्रपाणिभिः । वज्रपञ्जरमध्यस्थ, इव सार्थोऽवहत् पथि ॥ ७६ ॥ महार्थस्यापि सार्थस्य, दूरेऽस्थुस्तस्य दस्यवः । महार्घमौलिरत्नस्य, भुजङ्गमपतेरिव ॥ ७७ ॥ निःस्वाऽऽढ्ययोर्निर्विशेषं, योगे क्षेमे च सोद्यमः । धनः सर्वान् सहाऽनैषीद्, यूथेशः कलभौनिव ॥ ७८ ॥ आशास्यमानः सकलैलेंौकैः स्फारितलोचनैः । दिने दिने रविवि, प्रयाणमकरोद् धनः ॥ ७९ ॥ सरसां सरितां चाऽऽपस्तनू कुर्वन् निशा इव । उद्दामः समभृत् पान्थभीष्मो ग्रीष्मऋतुस्तदा ॥ ८० ॥ मन्धा इव ववुर्वावोऽत्यन्तदुःसहाः । आतपं तपॅनस्तेने, विष्वग् वह्निच्छटोपमम् ॥ ८१ ॥ • तत्सार्थपथिकास्तस्थुरनुपातं तरुं तरुम् । प्रपां प्रपां प्रवेशं च, पायं पायं पयोऽलुठन् ॥ ८२ ॥ तृषां सं १ ॥ लघुवत्सकैः । २ उष्ट्राः । ३ निर्धन धनाढ्ययोः । ४ अप्राप्तस्य प्राप्त्युपायो योगः । ५ प्राप्तस्य रक्षणं क्षेमः । सार्थान् सं १ ॥ ६ लघुगजान् । ७ सूर्यः । For Private & Personal Use Only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy