SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Jain Education International अश्वैरर्श्वतरैरुष्ट्रैर्वाहनैरपरैरपि । तस्य वेश्म व्यराजिष्ट, यादोभिरिव सागरः ॥ ४१ ॥ धनिनां गुणिनां कीर्तिशालिनां च नृणामसौ । धुर्यत्वं धारयामास, प्रौणोऽङ्गमरुतामिव ॥ ४२ ॥ अर्थैस्तस्य महार्थस्य, पर्यपूर्यन्त सेवकाः । महासरोवरस्येव स्यन्दैरभ्यर्णभूमयः ॥ ४३ ॥ स गृहीतमहाभाण्ड, उत्साह इव मूर्तिमान् । ईहाञ्चक्रेऽन्यदा गन्तुं, वसन्तपुरपत्तनम् ॥ ४४ ॥ सार्थवाहो धनस्तस्मिन्, सकलेऽपि पुरे ततः । डिण्डिमं ताडयित्वोच्चैः, पुरुषानित्यघोषयत् ॥ ४५ ॥ असौ धनः सार्थवाहो, वसन्तपुरमेष्यति । ये केऽप्यत्र यियासन्ति, ते चलन्तु सहाऽमुना ।। ४६ ।। भाण्डं दास्यत्यभाण्डायाऽवाहनाय च वाहनम् । सहायं चाऽसहायायाऽशम्बलाय च शम्बैलम् ॥ ४७ ॥ दस्युभ्यस्त्रास्यते मार्गे, श्वापदोपद्रवादपि । पालयिष्यत्यसौ मन्दान्, सहगान् बान्धवानिव ॥ ४८ ॥ क्षणे सँ कल्यः कल्याणे, कुलस्त्रीकृतमङ्गलः । रथमास्थाय विदधे, प्रस्थानं पत्तनाद् बहिः ॥ ४९ ॥ प्रस्थानभेरीभाङ्कारैराकारकनरैरिव । जनाः सर्वेऽपि तत्रेयुर्वसन्तपुरगामिनः || ५० ॥ अत्रान्तरे धर्मघोष, आचार्यः साधुचर्यया । धर्मेण पावयन् पृथ्वीं, सार्थवाहमुपाययौ ॥ ५१ ॥ ससम्भ्रममथोत्थाय, धनो दीयं तपस्विषा । सहस्रांशुमिवाऽऽचार्यमवन्दत कृताञ्जलिः ।। ५२ ।। धनेन पृष्टास्त्वाचार्याः समागमनकारणम् । वसन्तपुरमेष्यामस्त्वत्सार्थेनेत्यचीकथन् ॥ ५३ ॥ सार्थवाहोऽप्युवाचैवं, धन्योऽद्य भगवन्नहम् । अभिगम्या यदायाता, मत्सार्थेन च यास्यथ ॥ ५४ ॥ १ खचरैः । २ जलजन्तुभिः । ३ अङ्गमरुतां - अङ्गान्तर्गत सर्ववायूनां मध्ये प्राणो नाम वायुर्यथा धुर्यत्वं धारयामास तथा । ४ क्षुद्रप्रवाहैः । ५ पाथेयम् । *सकल्यकल्या' सं २ ॥ ६ नीरोगी । ७ आह्नानकारकैः । दीप्तं आ ॥ ८ सूर्यमिव । For Private & Personal Use Only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy