SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिदालाका प्रथमं पर्व प्रथमः पुरुषचरिते सर्गः ऋषभचरितम् । ॥२॥ |पूर्वभवचरिते प्रथमोधनसा एषां तीर्थकृतां तीर्थेष्वासन द्वादर्श चक्रिणः । नवार्धचक्रिणो रामास्तथा प्रत्यर्धचक्रिणः ॥२७॥ एते शलाकापुरुषा, भूतभाविशिवश्रियः । त्रिपष्टिरवसर्पिण्यां, भरतक्षेत्रसम्भवाः ॥ २८ ॥ एतेषां चरितं ब्रूमः, शलाकापुंस्त्वशालिनाम् । महात्मनां कीर्तनं हि, श्रेयोनिःश्रेयसास्पदम् ॥ २९ ॥ तत्र तावद् भगवतश्चरित्रमृषभप्रभोः । बोधिवीजावाप्तिहेतोर्भवादारभ्य वर्ण्यते ॥ ३०॥ ___ अस्त्यसङ्ख्याम्बुधिद्वीपवलयैः परिवेष्टितः । जम्बूद्वीप इति द्वीपो, वज्रवेदिकयाऽऽवृतः ॥ ३१॥ भूषितस्य स्रवन्तीभिववषधरैरपि । स्वर्णरत्नमयो मेरुर्मध्ये तस्याऽस्ति नाभिवत् ॥ ३२॥ स लक्षयोजनोच्छ्रायो, मेखलात्रयभूषितः । चत्वारिंशद्योजनोच्चचूलोऽहंच्चैत्यमण्डितः॥३३॥ अस्ति पश्चिमतस्तस्य, विदेहेषु महापुरम् । क्षितिप्रतिष्ठितं नाम, क्षितिमण्डलमण्डनम् ॥ ३४ ॥ तत्र प्रसन्नचन्द्रोऽभूनिस्तन्द्रो धर्मकर्मसु । देवराजोपमो राजा, राजमानो महर्द्धिभिः ॥३५॥ तत्र चाऽऽसीत् सार्थवाहो, धनो नाम यशोधनः । आस्पदं सम्पदामेकं, सरितामिव सागरः ॥ ३६ ॥ आसंस्तस्य महेच्छस्याऽनन्यसाधारणाः श्रियः । परोपकारकफला, रुचो हिमरुचेरिव ॥ ३७॥ सदा सदाचारनदीप्रवाहैकमहीधरः । सेवनीयो न कस्याऽऽसीत् , स महीतलपावनः? ॥ ३८ ॥ तसिन्नौदार्यगाम्भीर्यधैर्यप्रभृतयो गुणाः । आसन् बीजान्यमोघानि, प्रभवाय यशस्तरोः ॥ ३९ ॥ कणानामिव रत्नानामुत्करास्तस्य वेश्मनि । गोणीनामिव देवाङ्गवाससामपि राशयः ॥४०॥ *'तश्च स्र सं १॥ नदीभिः । २ क्षेत्रैः । ३ कुलपर्वतैः । ४ आलस्यरहितः । ५ इन्द्रतुल्यः । ६ स्थानम् । ७ चन्द्रस्य । ८राशयः । सार्थवाहभवः । ॥३ ॥ Jain Education Internation For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy